सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ६५ - प्रातरुत्थाय मन्त्रज्ञः कुलवृक्षं प्रणम्य च । शिरःपद्मे गुरुं ध्यात्वा तत्सुधाप्लावितं स्मरेत् ॥ ६६ ।। मानसैरुपचारैस्तु तमाराध्य निरामयः । मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् ॥ ७० ॥ सूर्यकोटिप्रतीकाशां सुधाप्लावितविग्रहाम् । तत्प्रभापटलव्याप्तं स्वशरीरं विचिन्तयेत् ॥ ७१ ॥ श्लेष्मातक-करञ्जाक्ष-निम्बाश्वत्थकदम्बकाः । बिल्वो वाप्यथवाऽशोक इत्यष्टौ कुलपादपाः ॥ ७२ ॥ एवं ते कथितं भद्रे तत्रेऽन्यस्मिन् महेश्वरि । बालां वा यौवनोन्मत्तां वृद्धां वा कुलसुन्दरीम् ॥ ७३ ।। कुत्सितां वा महादुष्टां नमस्कृत्य विभावयेत् । तासां प्रहारो निन्दा वा कौटिल्यमप्रियं तथा ॥ ७४ ।। सर्वथा च न कर्तव्यमन्यथा सिद्धिरोधकः । स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव विभूषणम् ॥ ७५ ॥ स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रियामपि । विपरीतरता सा तु भाविता हृदयोपरि ॥ ७६ ।। तद्धस्थावचितं द्रव्यं तद्धस्तावचितं जलम् । तद्धस्तावचितं भोज्यं देवताभ्यो निवेदयेत् ।। ७७ ।। अन्यमन्त्रपुरस्कारं निन्दां चैव विवर्जयेत् । एतद् ब्रह्म तदेवैतन्नाहं वस्तु न सोऽपि च ॥ ७८ ॥ नानाचारं न कर्तव्यं नाचारणमितस्ततः । प्रायश्चित्तं भृगोः पातं तीर्थाभिगमनं तथा ॥ ७९ ॥ पिण्डं वेदोदितं न्यासं कौले पञ्च विवर्जयेत् । भूतहिंसा न कर्तव्या पशुहिंसा विशेषतः ॥ ८० ॥