६४ बृहन्नीलतन्त्रम् । पशुशक्तिर्नरशक्तिः पक्षिशक्तिश्च भैरवि । पूजिता द्विगुणं कर्म साधयेत् परमेश्वरि ॥ ५७ ॥ तेन सर्व प्रयत्नेन कर्तव्यं पूजनं महत् । राजादिभयमापन्ने देशान्तरभयादिके ॥ ५८ ॥ अशुभानि च कर्माणि विचिन्त्य बलिमाहरेत् । बलिमन्त्रं प्रवक्ष्यामि सावधानावधारय ॥ ५६ ॥ येन सिद्ध्यति सर्वेशि नास्ति कालस्य निश्चयः । आदौ कालीं समुद्धृत्य शिवे चेति ततः परम् ॥ ६० ॥ सर्वरूपधरे पश्चात् आगच्छेति पदद्वयम् । मम-शब्दं ततो ब्रूयात् बलि-शब्दं ततः परम् ॥ ६१ ।। गृह्ण गृह्मेति द्वन्द्वं च वह्निजायावधिर्मनुः । मन्त्रेणानेन देवेशि बलिं दत्त्वा मनोहरम् ॥ ६२ ॥ सर्वपापैः प्रमुच्येत सत्यं सत्यं महेश्वरि । मन्त्रान्तरं प्रवक्ष्यामि बल्यर्थं यन्मनोहरम् ॥ ६३ ।। गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि । शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिं तव ॥ ६४ ॥ एवमुच्चार्य दातव्यो बलिः कुलजनप्रियः । यदा न भुज्यते देवि तदा नैव शुभं भवेत् ॥ ६५ ।। शुभं यदि भवेत्तत्र भुज्यते तदशेषतः । एवं ज्ञात्वा महादेवि शान्तिं स्वस्त्ययनं चरेत् ॥ ६६ ॥ इति ते कथितं देवि नैमित्तिकविधिं शिवे । यत्कृते साधको वीरो जायते च निरापदः ॥ ६७ ।। अथ वक्ष्ये महेशानि शाक्ताचारक्रमं शुभम् । शाक्तानां कुलसर्वस्वं जानीहि नगनन्दिनि ॥ ६८ ॥ १ 'विगुणं कर्म सगुणं साधयेद् ध्रुवम्' ख. पाठः ।
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/८९
दिखावट