सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ बृहन्नीलतन्त्रम् । केशसंस्करणं कुर्यान्नानाद्रव्यैर्मनोरमैः । ततो दद्यात् महाद्रव्यं येन तुष्यति मानवी ॥ ३४ ॥ स्तनद्वन्द्वे रमाबीजं हनुद्वये भग-द्वयम् । कक्षाधः परमेशानि लिखेत् गङ्गाधर-द्वयम् ॥ ३५ ॥ योन्यधः कामिनी-युग्ममूरुद्वये लिखेत् प्रिये । पादपद्मतले विश्वबीजं परमदुर्लभम् ॥ ३६ ॥ संलिख्य विधिवद्भक्त्या शिरीषवृन्तकेन वै । भगे लिखेन्महेशानि बालाबीजं महेश्वरि ॥ ३७ ।। ओष्ठद्वये भगं चैव लेखन्या कनकस्य च । हस्तद्वये काकिनी च लेखनीया च देशिकैः ॥ ३८ ॥ रक्तवस्त्रं महेशानि दद्याद्भद्रं मनोरमम् । रक्ताख्यचन्दनेनैव लिखत् बीजं सुरेश्वरि ॥ ३९ ॥ भगे पुष्पाञ्जलिं दत्त्वा प्रणमेद् दण्डवद्भुवि । एवं वारत्रयं कुर्यात् यावद् दृष्टिर्न जायते ॥ ४० ॥ मूलमन्त्रं महेशानि जपेत् पर्वतमस्तके । सहस्रस्य प्रमाणेन जपेत् तत्र महेश्वरि ॥ ४१ ।। अष्टाविंशतिमानेन तदास्य तु जपेत् प्रिये । अष्टोत्तरशतं योनिगर्तमध्ये जपेत् प्रिये ॥ ४२ ॥ तासामभीष्टसिद्ध्यर्थं कुर्यात् पर्वतमर्दनम् । मूलं जपेन्महेशानि ताडयेद् योनिमण्डलम् ॥ ४३ ॥ ततस्तत्त्वं पुरः क्षिप्वा सिद्धो भवति साधकः । कालीप्रयोगमेतद्धि जानीहि सुरवन्दिते ॥ ४४ ॥ काली तारा महाविद्या त्रिपुरार्णा महेश्वरी । एतासां भैरवीणां च प्रयोगात् सिद्धिमाप्नुयात् ॥ ४५ ॥