सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६० बृहन्नीलतन्त्रम् । दानाद् यत् फलमाप्नोति तत्फलं कौलिकार्चनात् । यदि भाग्यवशेनैव वारमेकं प्रपूजयेत् ॥ १० ॥ कृता(र्थोर्था)स्ते हि निस्तीर्णा यान्ति देवीपुरे स्वयम् । पुरश्चरणकालेऽपि यदि स्यात् पीठपूजनम् ॥ ११ ॥ तत्रैव पीठपूजा सा मनसापि न हीयते । देवीकोटे महाभागा उड्डियाने च भैरवी ॥ १२ ।। योनिमुद्रा कामरूपे महिषासुरमर्दिनी । कात्यायनी कामभूमौ कामाख्या कामरूपिणी ॥ १३ ॥ जालन्धरी च पूर्णेशी पूर्णशैले च चण्डिका । कामरूपे ततो देवी पूज्या दिक्केरवासिनी ॥ १४ ॥ अथवा कामरूपस्य दर्शनं यदि भाग्यतः । तदा भगादिदेवीनां पूजा तत्र विधीयते ॥ १५ ॥ यदि भाग्यवशेनैव कुलदृष्टिः प्रजायते । तदैव मानसीं तत्र तासां च संप्रकल्पयेत् ॥ १६ ॥ भगिनी भगजिह्वां च भगास्यां भगमालिनीम् । भगिनीं च भगाक्षीं च भगकर्णां भगत्वचम् ॥ १७ ॥ भगनासां भगस्तनीं भगस्थां भगसर्पिणीम् । तत्र संपूज्य गन्धाद्यैर्मानसैर्गुरुमेव च ॥ १८ ॥ नमस्कृत्य विधानेन स्वयमक्षोभितः सुधीः । द्वादश्यां पूजयेद्विष्णुं चतुर्दश्यामुमापतिम् ॥ १६ ॥ अष्टम्यां पूजयेच्छक्तिं सर्वसिद्धिप्रदां किल । केशसंस्कारकर्माणि कारयेत् सर्वदा प्रिये ॥ २० ॥ आदावानीय देवेशि स्वकान्तां वा परस्त्रियम् । प्रथमं चासनं दत्त्वा पाद्यं दद्यात्ततः परम् ॥ २१ ॥ १ 'योगनिद्रा' ख. पाठः ।