सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ षष्ठः पटलः । श्रीदेव्युवाच । भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद । इदानीं श्रोतुमिच्छामि पूजनं कुलपूजनम् ॥ १ ॥ यत्कृ(ते?त्वा)साधको वीरः सद्यो मोक्षमवाप्नुयात् । एकश्चेत् कुलशास्त्रज्ञः पूजार्हस्तत्र भैरव । कथयस्व महादेव यदि स्नेहोऽस्ति मां प्रति ॥ २ ॥ श्रीभैरव उवाच । कथितव्यं महापुण्यं विस्तरेण तपोधने । सर्व एव सुराः पूज्याः सत्यं ब्रह्मादयः शिवे ॥ ३ ॥ एका चेद्युवती तत्र पूजिता चावलोकिता । स(र्वत्रैर्वा ए)व परादेव्यः पूजिताः कुलभैरवि ॥ ४ ॥ आदावन्ते च मध्ये च सा हि पूज्यो विशेषतः । न पूजयति चेत् कान्तां बहुविघ्नैर्विलिप्यते ॥ ५ ॥ पूर्वार्जितफलं नास्ति का कथा परसाधने । नवशक्तिर्महेशानि पञ्चशक्तिश्च भैरवि ॥ ६ ॥ पूजिता विगुणं सर्व सगुणं कारयेद्यतः । पृथिवीं सस्यसंपन्नां ब्राह्मणे वेदपारगे ॥ ७ ॥ दत्त्वा यत्फलमाप्नोति तत्फलं कौलिकार्चनात् । अन्नदानं सहस्रेभ्यः शतेभ्यो यज्वनामपि ॥ ८ ॥ तेषां भोजनदानेन तत्फलं कौलिकार्चनात् । वापीकूपतडागानि कृत्वा च शिवकृष्णयोः ॥ ६ ॥ १ 'लक्षपूर्ती ' ख. पाठः । २ 'तदा' ख. पाठः । ३ 'पूजने' ख. पाठः । , .