सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । अन्नाभोगेश्वरी नित्या श्रीमद्भलिपुरे शिवा । सुवर्णा कनका वामा हिरण्यपुरपीठके ॥ २५३ ॥ महालक्ष्मीर्महेशानी महालक्ष्मीपुरेऽम्बिका । चण्डीपुरे प्रचण्डा च चण्डा चण्डवती शिवा ॥ २५४ ॥ छत्रे मेघस्वना चैव माया च्छत्रेश्वरी तथा । कालीघट्टे महापीठे काली कालात्मिका तथा ॥ २५५ ॥ लिङ्गाख्ये भैरवी विद्या विजया जाह्नवीतटे । इति ते कथितं दिव्यं पीठक्रममुदाहृतम् ॥ २५६ ॥ अतिगुह्यं महेशानि कथितं देववन्दिते' । मद्भक्तेभ्यो महेशानि प्रकाशमुपपादय ॥ २५७ ।। तेषां भाग्यवशेनैव कथितं मन्मुखोदितम् । अकथ्यं कथितं भद्रे अतिप्रियतमे शिवे ॥ २५८ ॥ सारात् सारतरं सर्वं कथितं तव सुन्दरि । इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे (नैमित्तिकार्चन-पीठ- तदीश्वरीवर्णनं) पञ्चमः पटलः ॥ ५ ॥ 66 १'चण्डा' ख. पाठः । २ "सुरगणार्चिते" इत्यपि पाठः ।