सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः पटलः । ५७ मालवे च महाविद्या बिल्वपीठे च रूपिणी । prime रूपवती महादेवी देवीकोटेऽखिलेश्वरी ॥ २४१ ॥ गोकर्णे प्रियपीठे त्वं रुद्राणी सर्वमङ्गला । पवने हरपीठे च गन्धश्रीश्च सुगन्धिका ।। २४२ ॥ अट्टहासे महापीठे भीमकाली च कालिका । विरजे मुक्तिहेतुश्च नमः-स्वस्ति-सुधामयी ।। २४३ ।। जयश्री राजलक्ष्मीश्च सुवेशा राजपर्वते । एलापुरे महासंपत् माहेश्वरी महापथे ।। २४४ ॥ गायत्री ब्रह्मरूपा च तत्सदोङ्कारपीठके । जया जयपुरे देवी जयदा जयमङ्गला ॥ २४५ ॥ विजया मङ्गला गौरी उज्जयिन्यां सदा शिवा । गौरीश्वरी महादेवी हारदापीठके शिवा ॥ २४६ ॥ क्षीरपीठे युगाद्या च क्षीराख्या नियमप्रभा । राजेश्वरी महालक्ष्मीर्हस्तिनापुरवासिनी ॥ २४७ ।। कमला विमला भक्ती रौद्री च नीलपर्वते । यागेश्वरी त्रिवेण्यां च त्रिःस्रोता ब्रह्मरूपिणी ॥ २४८ ॥ सिन्धुस्थाली?ले)कामधेनुः षष्ठी पष्ठीपुरे प्रिये । माया मायापुरे देवी सुरभी सौरभेश्वरे ॥ २४६ ॥ विलासिनी महानन्दा प्रियचन्दनपर्वते । महाव्रजेश्वरी श्रेष्ठा शमनेश्वरपीठके ।। २५० ।। भवानी भवभक्ता च श्रीशैले शिववल्लभा । देवता या स्वर्गलक्ष्मीः कनकामरपर्वते ॥ २५१ ॥ उमा गौरी सती सत्या पार्वती हिमपर्वते । इन्द्रेश्वरी सुराराध्या माहेन्द्रे जगदीश्वरी ।। २५२ ॥ १ 'त्रिवेणी' ख. पाठः ।