बृहन्नीलतन्त्रम् । चण्डीपुरमतिश्रेष्ठं तथा छायापुरं प्रिये । ज्ञात्वा पीठमिदं देवि मद्भक्तेषु प्रकाशय ॥ २०५ ॥ समुद्धर इमाँल्लोकान् मत्सम्बन्धविधानतः । संसारानलसंतप्तान् चिन्तावायुविघूर्णितान् ॥ २०६ ।। कृपयामृतवर्षिण्या अभिषिच्योद्धर प्रिये । पुण्यमस्ति महत् कान्ते यशोऽप्यस्ति महत्सुखम् ॥ २०७॥ महाजनप्रसादोऽस्ति मत्प्रीतिर्लोकरक्षणे । मत्प्रसङ्गो मदालापो मत्सवो मदनुग्रहः ॥ २०८ ॥ मत्कर्म मम सम्बन्धो मन्नाम मम चिन्तनम् । मत्कथा मदनुध्यानं मदावेशो मदर्चना ॥ २०६ ।। मदीक्षणं मदैक्यं च मन्मतिर्मन्नतिः स्तुतिः । मद्गानं मे पुरे नाट्यं मत्कर्मोद्योग एव च ॥ २१० ॥ मन्नाम वै मन्मनवो मच्चेष्टा मत्प्रियस्पृहा । एकेनैव कृतार्थश्च मदनुग्रहभाग् भवेत् ।। २११ ॥ यदिच्छेत् तीर्थपीठेषु तदाशु लभते प्रियम् । मन्मन्त्रग्रहणादेव निष्पापो जायते पुनः ॥ २१२ ॥ साधनाल्लभते सिद्धिः सिद्धक्षेत्रेष्वदीर्घतः । मन्मनुग्रहणं (न्यू नू )नं मत्तोषकारणं परम् ।। २१३ ।। गृहीत्वा नार्चयेद्यस्तु न जाने किं स मे पुनः । स्वर्गतः सुरवृक्षोऽपि न वै भवति कामदः ॥ २१४ ॥ नाश्रयेद्यदि तन्मूलं को दोषस्तस्य तत् प्रिये । चिन्तामणिर्गृहेऽप्यस्ति न तत्र कापि च स्पृहा ।। २१५ ।। को दोषस्तस्य यत्नेन सिध्यन्ति सकलाः क्रियाः । तस्माद्यत कथितं तुभ्यं तत्र यत्नः फलप्रदः ॥ २१६ ।।
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/७९
दिखावट