सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२ बृहन्नीलतन्त्रम् । आस्तिकानां भवेदत्र निवासः साधनं श्रुतिः' । तस्माद्यनेन कर्तव्यमत्र साधनमुत्तमैः ॥ १८१ ॥ इदानीं शृणु चार्वङ्गि पीठं सर्वाङ्गसुन्दरम् । अक्षमालामयं पीठ(ब्रूहि विद्धि)मे परमेश्वरि ॥ १८२ ॥ यत्र सिद्ध्यन्ति कार्याणि स्थितिस्ते शङ्करस्य च । विष्णोरगाधबोधस्य तत्क्रियाया महेश्वरि १८३ ॥ अन्येषां चैव देवानां युष्मत्पदनिवासिनाम् । प्रसादो हि भवत्याशु तत्र मे प्रीतिरुत्तमा ॥ १८४ ।। प्रिये ते कथयिष्यामि अक्षमालात्मकं परम् । सान्निध्यं यत्र सर्वेषां तस्मादादि दिवौकसाम् ॥ १८५ ।। अस्माभिश्च महाद्भिश्च यद्यत् स्थानमलंकृतम् । तत्तन्महोत्तमं प्रोक्तं सर्वसिद्धिप्रदं प्रिये ॥ १८६ ॥ महान्तो यत्र तिष्ठन्ति साधयन्ति परं पदम् । तत्तन्महोत्तमं स्थानं सर्वं कल्याणदं प्रिये ।। १८७ ॥ अमरेशपुरं चैवासुरान्तकं पुरं तथा । तत्तन्महोत्तमं स्थानं सर्वसिद्धिकरं नृणाम् ॥ १८८ ।। सतीभिः साधुभिः कान्ते यद्यत् स्थानमलंकृतम् । अम्बिकापीठमत्यन्तमनन्तपुरमेव च ।। १८६ ॥ अनिरुद्धपुरं वेत्सि तथादितिपुरं परम् । अणिमादिपुरं चैव अश्वमेधपुरं परम् ॥ १० ॥ अन्नपूर्णामहापीठमम्बुजाख्यपुरं तथा । आदिपीठानन्दपीठौ चामोदावादिसूकरौ ॥ १६१ ।। आशु सिद्धिपुरं चैव यथाद्यन्तपुरं मुखम् । अकम्पादित्यपीठा च आद्यादिनाथपीठको ॥ १६२ ॥ रतिः" इति पाठान्तरम् । 66 9