सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५० 3 बृहन्नीलतन्त्रम् । केदारेश्वर ईशानो देवी सन्मार्गदायिनी । भैरवे भैरवः शम्भुर्भैरवी परमेश्वरी ॥ १५७ ॥ गणक्षेत्रे मङ्गलाख्या शिवोऽहं प्रपितामहः । कुरुक्षेत्रे शिवः स्थाणुः शिवा स्थाणुप्रिया परा ॥ १५८ ॥ इष्टलाभे स्वयंभूश्च देवी स्वायम्भवा मता । उग्रः कनखले प्रोक्तः शिवोग्रा शिववल्लभा ॥ १५६ ॥ विमलेश्वरे विश्वस्तु विश्वा विश्वप्रिया सदा । अट्टहासे महानन्दो महानन्दा महेश्वरी ।। १६० ॥ महान्तको महेन्द्रे च पार्वती च महान्तका । भीमेश्वरो भीमपीठे शिवा भीमेश्वरी तथा ॥ १६१ ।। वस्त्रपादे भवो नाम भवानी भुवनेश्वरी । अद्रिकूटे महायोगी रुद्राणी परमेश्वरी ॥ १६२ ॥ अविमुक्त महादेवो विशालाक्षी शिवा परा । महालये हरो रुद्रो महाभागा शिवा तथा ॥ १६३ ।। महाबलश्च गोकर्णे शिवा 'ज्ञेया च चण्डिका । भद्रवर्णे महादेवो भद्रा च कर्णिका तथा ॥ १६४ ।। सुवर्णाख्ये सहस्राक्ष उत्पला परमेश्वरी । स्थाणुसङ्गे शिवः स्थाणवीश्वरः स्थाएवीश्वरा शिवा ॥ १६५ ॥ कमलालये म(हास्नाने हेशानो)कमलाक्षो महेश्वरः कमलाक्षी महेशानी सकलार्थप्रदायिनी ॥ १६६ ।। छगलाण्डे कपर्दी च प्रसरा च महेश्वरी । ऊर्ध्वरेता द्विरण्डे च सन्ध्याख्या परमेश्वरी ॥ १६७ ।। माकोटाख्ये महाकोटः शिवा च मुण्डकेश्वरी । मण्डलेश्वरपीठे च शङ्करः खाण्डवी शिवा ॥ १६८ ॥ 66 भद्रा च" इति पाठान्तरम् ।