सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः पटलः । तमोलिप्ते तमोघ्नी च स्वाहा सागरसंगमे । गीता कुलश्रीर्वंशवृद्धिश्च माधवी माधवप्रिया ॥ १४५ ॥ मङ्गला मङ्गले कोटे राढे मङ्गलचण्डिका । ज्वालामुखी शिवापीठे मन्दारे भुवनेश्वरी ॥ १४६ ॥ कालीघट्टे गुह्यकाली किरीटे च महेश्वरी । किरीटेश्वरी महादेवी लिङ्गाख्ये लिङ्गवाहिनी ॥ १४७ ॥ साक्षात् सर्वत्र भक्तानामभक्तानां कुतोऽपि न । अथान्यत् संप्रवक्ष्यामि सिद्धिस्थानानि सुन्दरि ॥ १४८ ॥ सर्वपापविनाशा(र्थिय)सर्वसिद्धिप्रदानि च । निर्मितानि शिवेनेह सि(द्धद्धि)स्थानानि यानि च ॥ १४६ ।। श्रुत्वा मनसि भाव्यानि प्रकाशान्यधिकारिषु । अमरेशमहापीठे ईश ओंकारसंज्ञकः ॥ १५० ॥ तत्र दुर्गाद्वयं नाम चण्डिका च महेश्वरी । प्रभासे सोमनाथादौ देवी च पुष्करेक्षणा ॥ १५१ ॥ देवदेवाधिपः शम्भु मिषे च महेश्वरः । तत्र प्रज्ञा च देवी च भवानी लिङ्गधारिणी ॥ १५२ ॥ पुष्करे च राजगन्धिः पुरुहूता महेश्वरी । श्रीपर्वते प्रियं नाम शङ्करस्त्रिपुरान्तकः ॥ १५३ ।। मायापि शङ्करी तत्र भक्तानामखिलार्थदा । जप्येश्वरे महास्थाने शङ्करी च त्रिशूलिनी ।। १५४ ॥ त्रिशूलः शङ्करस्तत्र सर्वपापविमोचकः । आम्रातकपुरे सूक्ष्मः सूक्ष्माख्या परमेश्वरी ॥ १५५ ॥ महाकाले महाकालो महाकाली महेश्वरी । मध्ये शिवश्च सर्वत्र शर्वाणी परमेश्वरी ॥ १५६ ॥