सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । हंसीश्वरी हंसतीर्थे परहंसीश्वरीति च । पिण्डावकरणे धन्या सुरसा सुखदायिनी ॥ १३३ ॥ नारायणी वैष्णवी सा गङ्गाद्वारे विमुक्तिदा । श्रीविद्या बदरीतीर्थे वामतीर्थे महाधृतिः ॥ १३४ ॥ जयन्ते च जयन्ती त्वं विजयन्ते ऽपराजिता । विजयायां महाशुद्धिः शारदायां च शारदा ॥ १३५ ॥ सुभद्रा भद्रदा भव्या भद्रकालीश्वरे तथा । महाभद्रे भद्रकाली हयतीर्थे गिरीश्वरी ॥ १३६ ॥ वेददा वेदमाता च वेदेशा वेदमस्तके । ओघवत्यां महावीर्या महानद्यां महोदया ॥ १३७ ॥ चण्डा चात्रिपदे चैव छागलिङ्गे बलिप्रिया । मातृदर्श जगन्माता करवीरपुरे सती ॥ १३८ ॥ मलिनी रङ्गिणी वामा परमा परमेश्वरी । सप्तगोदावरे तीर्थे देवशीर्षाखिलेश्वरी ॥ १३६ ॥ अयोध्यायां भवानी च जयदा जयमङ्गला । माधवी मथुरायां च देवकी यादवेश्वरी ।। १४० ॥ वृन्दा गोपेश्वरी राधा रासवृन्दावने रसे ! कात्यायनी महामाया भद्रकाली कलावती ॥ १४१ ।। चन्द्रमाला महाशान्तिर्महायोगिन्यधीश्वरो । वज्रेश्वरी यशोदेति वजश्रीर्गोकुलेश्वरी ॥ १४२ ।। काञ्च्यां कनककाञ्ची स्यादवन्त्यामतिपावनी । विद्या विद्यापुरे चैव विमला नीलपर्वते ॥ १४३ ॥ राजेशे श्वेतगङ्गेशी विमला पुरुषोत्तमे । विरजा याग(पू?पु)र्या च भद्रेशे भद्रकर्णिका ॥ १४४ ॥