सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ बृहन्नीलतन्त्रम । स्वप्रकाशवशाद् देवि ज्योतिष्मतीह सङ्गमे । श्रीवहा श्रीगिरौ चैव काली कालोदके तथा ॥ १०६ ॥ महादेवि ! महाबुद्धिर्नीला चोत्तरमानसे । मातङ्गी स्यात् मतङ्गे च गुप्तार्चिर्विष्णुपादके ॥ ११० ॥ स्वर्गङ्गा स्वर्गमार्गे च गोदावर्यां गवेश्वरी । विमुक्तिश्चैव गोमत्यां विप्रभावा महाबला । १११ ॥ शतप्रभा शतरूपा चन्द्रभागा च तत्र वै । ऐरावत्यां च ईर्नाम सिद्धिदा सिद्धितीरके ॥ ११२ ।। दक्षपञ्चनदे चैव दक्षिणा त्वं प्रकीर्तिता । औजिसे वीर्यदा त्वं च सङ्गमा तीर्थसङ्गमे ॥ ११३ ॥ बाहुदायामसन्ता [?] त्वं कुरुक्षेत्रे वपेक्षणा । तपस्विनी पुण्यतमा भारती भरताश्रमे ॥ ११४ ॥ सुकथा नैमिषारण्ये पाण्डौ च पाण्डवानना । विशाल्यां च विशालाक्षी मुण्डपृष्ठे शिवात्मिका ॥ ११५ ॥ श्रद्धा कनखले तीर्थे शुद्धबुद्धिर्मुनीश्वरे । सुवेशा सुमना गौरी मानस च सरोवरे ॥ ११६ ॥ नन्दापुरे महानन्दा ललिता ललितापुरे । ब्रह्माणी ब्रह्मशिरसि महापातकनाशिनी ॥ ११७ ।। पूर्णिमा चेन्दुमत्याद्यैः सिञ्चयन्ती प्रिया सदा । जा(ह्वि ह)वीसङ्गमे तृप्तिः स्वधा त्वं पितृतुष्टिदा ॥ ११८ ॥ पुण्याहा वेणुवत्यां च प्रपायां पापनाशिनी । शङ्खसंहारिणी घोररूपा चैव महोदरी ॥ ११६ ॥ गर्गोच्छेदे महारात्रिः प्रबला च महावने । भद्रा च भद्रकाली च भद्रेश्वरीश्वरप्रिया ॥ १२० ।।