सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः पटलः । किरीटमुत्तरातीर्थं दक्षिणातीर्थमुत्तमम् । विशालातीर्थं काल्याश्च वनं वृन्दावनं तथा ।। ६७ ।। ज्वालामुखी हिङ्गुला च महातीर्थं गणेश्वरम् । जानीहि सर्वसिद्धीनां हेतुस्थानानि सुन्दरि ॥ ८ ॥ अत्र सन्निहिता नित्यं सर्वे देवा महर्षयः । पितरो योगिनश्चैव ये च सिद्धिपरायणाः ॥ ६ ॥ आशु सिद्ध्यन्ति कार्याणि श्रद्धाभक्तिमतां प्रिये । पुण्यकाले पठेद् यस्तु तत्पुण्यमक्षयं भवेत् ॥ १०० ॥ श्राद्धकाले पठेद् यस्तु शृणुयाद्वापि भक्तितः । अक्षयं तद्भवेद्वाक्यं पितॄणां परमं सुखम् ॥ १०१ ॥ अस्मिन् स्थाने 'जपेद्यस्तु सिद्धिर्भवति तत्क्षणात् । अथ वक्ष्ये महेशानि यत्र या देवता शृणु ॥ १०२ ॥ यत्र ते यानि नामानि कथयिष्यामि तच्छृणु । मग्नोऽहं परमानन्दे त्वत्कथामृतवारिधौ ॥ १०३ ॥ पुष्करे कमलाक्षी च गयायां च गयेश्वरी । अक्षयाऽक्षयवटकेऽमरेशामरकण्ठके ॥ १०४ ।। वराहपर्वते च त्वं वाराही धरणीप्रिया । दुर्मदा नर्मदायां च कालिन्दी यमुनाजले ॥ १०५ ॥ शिवामृता च गङ्गायामम्बा तु तिलिकाश्रमे । कुमारधाम्नि, कौमारी प्रभासे सुरपूजिता ॥ १०६ ॥ काश्यां चैवान्नपूर्णा च द्राविडे च सरस्वती । महाविद्या मत्तमेधा अगस्त्याश्रमके तथा ॥ १०७ ॥ कौशिकीति प्रियं नाम कौशिकामृतकौशिके । शारदा सरयूतीरे शोणे च कनकेश्वरी ॥ १०८ ॥ १ "पेठद्यस्तु" इति वा पाठः । २ “घृतकौशिके” इति पाठान्तरम् । .