सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतनम् । पाटला च महाबोधिर्नागतीर्थ मदन्तिका । पुण्यं रामेश्वरं देवि तथा मेघवनं हरेः ॥ ८६ ॥ ऐलं रमणकं चैव गोवर्द्धनमतिप्रियम् । हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकमतिप्रियम् ॥ ८७ ॥ इन्द्रनीलं महानादं तथैव प्रियमेनकम् । पम्पासरः पञ्चवटी वटीपर्वतिका तथा ।। ८८ ॥ गङ्गाबिल्वं च प्रासङ्गः प्रियनादवटस्तथा । गङ्गावामाचलं चैव तथैव ऋणमोचनम् ॥ ८६ ॥ गौतमश्वरतीर्थं च वसिष्ठतीर्थमेव च । हारीतकं तथा देवि ब्रह्मावर्त शिवप्रदम् ॥ १० ॥ कुशावर्तमतिश्रेष्ठं हंसतीर्थं तथैव च । पिण्डावकरणं ख्यातं हरिद्वारं तथैव च ॥ ११ ॥ तथैव बदरीतीर्थं वामतीर्थं तथैव च । जयन्तं विजयन्तं च सर्वकल्याणदं प्रिये ॥ १२ ॥ विजया शारदातीर्थं भद्रकालीश्वरं तथा । अश्वतीर्थं सुविख्यातं तथा वेदशिरः प्रियः ॥ १३ ॥ ओघवती नदी चैव तीर्थमत्रिपदं तथा । छागलिङ्गं मातृगणं करवीरपुरं तथा ।। ६४ ॥ सप्तगोदावरं तीर्थं सर्वधर्मफलप्रदम् । अयोध्या मथुरा माया दुर्गा द्वारावती हरेः ।। ६५ ॥ विद्यापुरमवन्ती च काञ्ची मङ्गलकोटकम् । कालीघट्टं गुप्ततीर्थ सिद्धाख्यं सर्वमोहनम् ६६ ॥ १ "शकुलकोठरं' नकुलकोठरं' 'मङ्गलकुट्टकं " वा इति पाठान्तराणि । "लिङ्गाख्यं" इति पाठान्तरम् । 6 . " २