सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । महाविद्यां च सुन्दर्या वासुदेवं च योऽर्चयेत् । प्राप्नोति तत्फलं सर्वं हरिसायुज्यतां व्रजेत् ।। ६२ ।। वासुदेवो हरिर्ब्रह्मा तारिणी प्रकृतिः सदा । एकमूर्तिः सदा चिन्त्या एकमूर्तिः सदा स्थिता ॥ ६३ ॥ स्वर्गमोक्षप्रदा देवी 'धनविद्याप्रदायिनी । धनविद्यायशोलक्ष्मीरायुरारोग्यवर्द्धिनी ॥ ६४ ॥ तस्मात्तां पूजयेद् देवीं गन्धपुष्पैश्च धूपकैः । नैवेद्यैर्विविधैर्भक्त्या पूजयेत् तारिणी सदा ॥ ६५ ॥ आषाढे शयनं कुर्यात् सिंहे च परिवर्तनम् । आश्विने बोधयेद् देवीं पशुपायसभोजनैः ॥ ६६ ।। रात्रौ पवित्रेण वरं जायते सुरसुन्दरि । दिवा प्रबोधेऽपि तथा स्वप्नेऽपि च कदाचन ॥ ६७ ।। शुक्लाष्टम्यां घटाष्टम्यां घटस्य च विशेषतः । माघमासस्य च विधो रात्रौ संपूजयेत् सुधीः ॥ ६८ ॥ पीठार्चनं महादेवि यत्र सिद्धिरनुत्तमा । पीठानां परमं पीठं कामरूपं महाफलम् ॥ ६६ ॥ तत्र यत् क्रियते पूजा सकृद्वापि महेश्व(री?रि) । विहाय सर्वपीठानि तस्य देहे वसाम्यहम् ॥ ७० ॥ तस्माच्छतगुणं प्रोक्तं कामाख्यायोनिमण्डलम् । तेषां फलं महेशानि वक्तुं किं शक्यते मया ॥ ७१ ॥ तन्त्र कोटिगुणैः सार्धमाद्या वसति तारिणी । मत्पीठं ब्रह्मणो वक्रं गुप्तं सर्वसुखावहम् ।। ७२ ॥ : यतो देवाश्च वेदाश्च मुनयश्चैव भावजाः । सर्वेऽप्याविर्भवन्त्येते तेन गुप्तं सदा कुरु ॥ ७३ ॥ १ जप ख. पाठः। २'माया' ख. पाठः । 6 १