सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः पटलः । सर्ववर्णमहेशानि देया च त्रिविधा सुग । अथवासवसंभृत्यै दद्याद्वापि गुडार्द्रकम् ॥ ५० ॥ तक्रं वा गुडसंमिश्रं दद्याद् देव्यै प्रयत्नतः । नारिकेलोदकं कां(श्ये?स्ये)ताने वा विसृजेन्मधु ॥ ५१ ॥ तारामन्त्रेण काल्याश्च अत्र पूर्णाविधौ तथा । अनुकल्पं चासवं च दद्यादतिमनोहरम् ।। ५२ ॥ रम्भाफलं शालमत्स्यं जुहुयान्मन्त्रवित्तमः । सर्वां सिद्धिमनुक्रम्य अन्ते मोक्षमवाप्नुयात् ॥ ५३ ॥ साज्यस्य बिल्वपत्रस्य होमेन जगती वशे । सहस्रहोमे देवेशि लभते सिद्धिमुत्तमाम् ॥ ५४ ।। लभते मञ्जुलां वाणीं महाष्टम्यां च साधकः । कुलवारे कुलाष्टम्यां चतुर्दश्यां विशेषतः ॥ ५५ ॥ योगिनीपूजनं तत्र साधनं कुलपूजनम् । यथा विष्णुतिथौ विष्णुः पूजितो वाञ्छितप्रदः ॥ ५६ ॥ तथा कुलतिथौ शक्तिः पूजिता वरदायिनी । कुलवारे चतुर्दश्यामष्टम्यां च विशेषतः ॥ ५७ ।। शङ्खस्थितं तोयपूर्णं ज(वा? पा)पुष्पं च बर्बरा । चन्दनं चार्ककुसुमं शुक्ला चैवापराजिता ॥ ५८ ॥ अ(न?र्घ्य)दानं विशेषेण नित्यपूजाक्रमः स्मृतः । अष्टोत्तरशतं जप्यं यावज्जीवितसंख्यया ॥ ५६ ॥ सहस्रं वा जपेन्मन्त्रं नित्यपूजाविधौ प्रिये । महोप्रायाः (?) सदा पूज्या पूजने कुल्लुका परा ॥ ६ ॥ स्तोत्रमन्त्रव्रतादीनामनुष्ठानं शृणु प्रिये । अननुष्ठानतस्तस्याः सर्वं तन्निष्फलं भवेत् ॥ ६१ ॥