सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४० बृहन्नीलतन्त्रम् ।. तारिणी वं महादेवि चात्र पूर्णा युगागमे । अस्माकं ज्ञानदात्री च विष्णुमातर्नमोऽस्तु ते ॥ ३८ ॥ त्वं श्रीस्त्वं (हि?चैव)सावित्री सती च खं सुरेश्वरि । आद्ये भवाद्ये सर्वेशे विश्वमातर्नमोऽस्तु ते ॥ ३६ ।। शिवे शिवात्मिके घोरे सर्वविद्यानिधे शुभे । प्रसन्ना भव सर्वज्ञे सर्वमन्त्रप्रकाशने ।। ४. ॥ प्रसीद देवि चास्माकं सर्वभूतदयामयि । इति स्तवेन संस्तुष्टां महाकाली करालिनीम् ॥ ४१ ॥ दण्डवत् प्रणिपत्यादौ पुनराह गरीयसीम् । आसवं च मया शप्तं कारणं शृणु भैरवि ॥ ४२ ॥ पीलासवं महादेवि न सिद्धिर्जायते मम । तस्माच्छप्तं महेशानि सर्व निगदितं शृणु ॥ ४३ ॥ उवाच सा महासाध्वी काली कालस्वरूपिणी । प्रहसन्तीव सा देवी शुक्रं दैत्यगुरुं प्रति ॥ ४४ ॥ अमन्त्रिता सुरा वि(प्रो प्र!)पीता परमदुर्लभा । तेनैव हेतुना सिद्धिर्न जाता तव सुन्दर ॥ ४५ ॥ अमन्त्रितसुरापाने प्रायश्चित्तं विधीयते । आयसे भाजने भद्रे स्वर्णे रूप्ये तथैव च ॥ ४६ ॥ ब्राह्मणो वेदवांश्चैव पिबेच्च वारुणीं शुभाम् । तप्तां सुरां पिबेच्चैव नान्यथा सिद्धिमाप्नुयात् ।। ४७ ॥ इति ते कथितं दिव्यं सारवृत्तान्तमुत्तमम् । अपेया सा निषिद्धा सानाघ्रेया चेति च क्रमात् ॥ ४८ ॥ अनिर्ग्राह्या च सा देवि या वै वैधेतरा भवेत् । तस्माज्जपविधौ ज्ञेया सुरा सिद्धिकरी मता ॥ ४६ ॥ 10