पञ्चमः पटलः । ३६ तन्निषिद्धा महादेवि या च वैधेतरा भवेत् । अमन्त्रितसुरापाने प्रायश्चि(तो?त्तं) विधीयते ॥ २६ ॥ शृणु देवि महाभागे पुरावृत्तं मनोहरम् । शुक्रो दैत्यगुरुः पू(र्वे?र्वं) सिद्ध्यर्थं कृतवाञ्जपम् ॥ २७ ॥ कल्पकोटिजपेनापि नासिद्ध्यत कदाचन । पीत्वासवं महादेवि प्रत्यहं जपतत्परः ।। २८ ॥ चित्तोन्मादं तदा तस्य जातं परमकौतुकम् । जपभ्रष्टोऽभवत्तत्र सस्मार वनितां शुभाम् ॥ २६ ॥ तथोर्वशी च स्वर्वेश्या तत्र गत्वा मनोरमम् । वाक्यं सर्वरसस्वादु कथयित्वा सुशोभने! ॥ ३० ॥ शुक्रेण सार्धं देवेशि रमयामास चोर्वशी । शुक्रोत्पत्तिश्च जायेत ज्ञानं य(ज)ज्ञे ततः परम् ॥ ३१ ॥ तत्त्वं ज्ञात्वा ततः शुक्रः शशापासवमुत्तमम् । तेन शापेन देवेशि शप्तं चासवमुत्तमम् ॥ ३२ ॥ ततः प्र(भूभृ)ति तद् देवि सिद्धये नच जायते । एवं क्रमेण देवेशि शतवर्ष गतं प्रिये ॥ ३३ ॥ ततः सा च भगवती काली कालस्वरूपिणी । उवाच सादरं वाक्यं काली दैत्यगुरुं प्रति ॥ ३४ ॥ शृणु वत्स महद्वाक्यं सावधा(नानो)ऽवधारय । कथं शप्तं महाभाग चासवं देवदुर्लभम् ॥ ३५ ॥ श्रीशुक्र उवाच । सर्वेशे सर्वभूतेशे सर्वभूतसमावृते । ब्रह्मेशविष्णुनमिते प्रणमामि सदा शिवे ॥ ३६ ॥ ब्रह्मविष्णुशिवानां च प्रसूते करुणामयि । जडानां ज्ञानदे देवि त्राहि मां शरणागतम् ॥ ३७ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६४
दिखावट