सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । क्रमोत्क्रमाच्छतावृत्त्या तदन्ते केवलं मनुम् । एवं तु प्रत्यहं जप्याद् यावल्लक्षं समाप्यते ॥ १११ ।। निश्चितं मन्त्रसिद्धिः स्यादित्युक्तं तन्त्रवेदिभिः । पुरश्चर्याशतेनापि प्रयोगविधिना तथा ।। ११२ ॥ कल्पकोटिजपेनापि पूजायाः शतकेन च । न सिद्धिर्जायते सुभ्रु ! यदि भावो न जायते ॥ ११३ ॥ इति श्रीबृहन्नीलतन्त्र भैरवभैरवीसंवादे (पुरश्चर्याविधिनिरूपणं) चतुर्थः पटलः ।। ४ ॥ अथ 1 पञ्चमः पटलः । श्रीभैरव उवाच । नित्यार्चनरतो मन्त्री कुर्यान्नैमित्तिकार्चनम् । नैमित्तिकार्चने सिद्धिः कुर्यात् काम्यमखण्डितम् ॥ १ ॥ मासार्धमथवा मासं द्विगुणं त्रिगुणं तथा । यावत्फलाप्तिभाग् योगी तावदेवं समाचरेत् ॥ २ ॥ नैमित्तिके च काम्ये च फलाप्तिर्मण्डलावधिः । नचेत्तु द्विगुणीकृत्य यथा स्यात् फलभाक् सुधीः ॥ ३ ॥ अष्टम्यां च चतुर्दश्यां पूजयेच्च प्रयत्नतः । यद्यत् प्रार्थयते मन्त्री तत्तदाप्नोति नित्यशः ॥ ४ ॥ १प्तवान् ' ख. पाठः । -