सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५ चतुर्थः पटलः । को वेदः कुत आयाति को वा तस्य प्रकाशकः । कः कर्ता तस्य वेदस्य तत्सर्वं कथयस्व मे ॥ ६६ ॥ श्रीभैरव उवाच । एको वेदश्चतुर्धाभूद् यजुःसाम-ऋगादयः । वेदो ब्रह्मेति साक्षाद्वै जानेऽहं नगनन्दिनि ॥ १०० ॥ स्वयं प्रवर्तते वेदस्तत्कर्ता नास्ति सुन्दरि । स्वयंभूरीशो भगवान् वेदो गीतस्त(या?था)पुरा ॥ १०१ ॥ शिवाद्या ऋषिपर्यन्ताः स्मारोऽस्य न कारकाः । प्रकाशका भवन्त्येते कृष्णाद्यास्त्रिदिवौकसः ॥ १०२ ॥ वैदिकप्रतिपाद्यश्च अर्थो धर्मः प्रकीर्तितः । विपरीतं महेशानि अधर्मो भवति प्रिये ॥ १०३ ॥ परदारागमं वदे तन्निषिद्धं सुरेश्वरि । यद्धि वैधतरं देवि तनिषिद्धं महेश्वरि ॥ १०४ ॥ परस्त्रियं महेशानि मनसा भावयञ्जपेत् । तदैव सर्वसिद्धिः स्यान्नात्र कार्या विचारणा ॥ १०५ ॥ इति सिद्धान्तविद्भिश्च ज्ञेयं तन्त्रोपदेशिकम् । महाचीनद्रुमलतावेष्टनेन च यत्फलम् ॥ १०६ ॥ तत्फलं नास्ति देवेशि त्रैलोक्ये सुरवन्दिते । यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः ॥ १०७ ॥ कृतार्थस्तेन जायेत स्वर्गो वा मोक्ष एव च । भ्रान्तिरत्र न कर्तव्या सिद्धिर्भवति निश्चितम् ॥ १०८ ॥ तस्मादनेन देवेशि पापं नास्ति महेश्वरि । तस्मात् कुर्यात् साधकेन्द्रः परदारागमं शुभे ॥ १०६ ।। अथान्यत् संप्रवक्ष्यामि मनसिद्धेश्च लक्षणम् । मातृकापुटितं कृत्वा स्वमन्त्रं प्रजपेत् सुधीः ॥ ११० ।।