सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४. बृहन्नीलतन्त्रम् । इत्येवं सिद्धमन्त्रः सन् सर्वान् कामांश्च साधयेत् । बिल्वपत्रं महेशानि दशांशं जुहुयात् ततः ॥ ८६ ।। अथ चैवं तिलाज्येन होमयेद्वाथ सुन्दरि । सर्वस्वं गुरवे दद्यात् तदर्थं वा तदर्धतः ॥ १० ॥ अज्ञात्वा कुल्लुकां देवीमजप्त्वा गुरुपादुकाम् । न दत्त्वा दक्षिणां सम्यगकृत्वा चक्रपूजनम् ।। ६१ ॥ योऽस्मिंस्तन्त्रे प्रवर्तेत तत्स्वं पीडयते ध्रुवम् । श्रीदेव्युवाच । कथितं परमेशान परदारविधौ मयि । न पापं जायते सुभ्रु परदारविधौ मम ॥ १२ ॥ परस्य दारान् संस्पृश्य जप्यते यदि साधकैः । तदैव महती सिद्धिर्नात्र कार्या विचारणा ॥ १३ ॥ कालीकल्पप्रकाशे च कथितं यन्महेश्वर । अत्रैव सम्यगाख्यानं कुरुष्व हृदयप्रिय ॥ १४ ॥ श्रीभैरव उवाच । शृणु देवि महाभागे आपदुद्धारकारिणि । अकथ्यं यन्महादेवि तव स्नेहात् प्रकाश्यते ॥ १५ ॥ परदारविधौ वेदनिन्दावादः प्रवर्तते । तासां सङ्गान्महेशानि तामिस्रं नरकं भवेत् ॥ ६६ ॥ वेदार्थमिति विज्ञाय कथं कुर्याच्च साधकः । परदारान् नैव गच्छेद् , गच्छञ्जपेच्चेति वेदः ॥ १७ ॥ श्रुतिद्वयविरोधित्वाद्गच्छेरन् परयोषितः । तस्माच्छृणु वरारोहे वेदार्थं कथयामि ते ॥ ८ ॥ । श्रीदेव्युवाच ।