सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३ चतुर्थः पटलः । हृदये ग्रन्थिभेदश्च सर्वावयवभेदनम् । आनन्दाश्रूणि पुलको देहावेशः कुलेश्वरि ॥ ७७ ॥ गद्गदोक्तिश्च सहसा जायते नात्र संशयः । सकृदुच्चारिते चैवं मन्त्रे चैतन्यसंयुते ॥ ७८ ॥ दृश्यते च महादेवि पारंपर्य तदुच्यते । एवं जपं यथा कृत्वा दशांशमसितोत्पलैः ॥ ७९ ॥ आज्याक्कैर्जुहुयान्मन्त्री तद्दशांशेन तर्पणम् । कालागुरुद्रवोपेतैर्विमलैर्गन्धवारिभिः ॥ ८० ॥ तर्प(येत्) तां परां देवी तत्प्रकारमिहोच्यते । जले चावाह्य विधिवत् पाद्याद्यैरुदकात्मकैः ॥ ८१ ॥ संपूज्य विधिवद् देवीं परिवारान् सकृत्सकृत् । संतर्प्य विधिवद्भक्त्या दशांशं तर्पयेत् ततः ॥ ८२ ॥ पुनरकैकं संतर्प्य परिवारांस्तथा पुनः । तारिणीमभिषिञ्चामि नमो मूर्ध्नि विनिःक्षिपेत् ॥ ८३ ।। अभिषेकोऽयमाख्यातः सर्वपापनिकृन्तनः । अभिषेकदशांशेन साधकानां च भोजनम् ॥ ८४ ॥ सुवासिनी कुमारी च भोजयेत् तदनन्तरम् । चीरखण्डाज्यभोज्यैश्च मन्त्रसिद्धिर्भवेद् ध्रुवम् ॥ ८५ ॥ गुरवे दक्षिणां दद्याद् बहुमानपुरःसरम् । होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः ॥ ८६ ॥ मन्त्रान्ते नाम चोच्चार्य तर्पयामि ततः परम् । स्वाहान्ते तर्पणं त्वेवमभिषेकं शृणुष्व मे ॥ ८७ ॥ मन्त्रान्ते नाम चोच्चार्य सिञ्चामीति पदं ततः । तद्दशांशं ब्राह्मणानां भोजनं च समाचरेत् ॥ ८८ ॥ PAY