३२ बृहन्नीलतन्त्रम् । कुल्लुका नाम सा देवी अनुभावस्वरूपिणी । सवामकर्त्रिहस्ता च चतुर्बाहुसमन्विता ॥ ६५ ॥ नीलोत्पलवपुः श्यामा सर्वालङ्कारभूषिता । लिखेत् तत् त्र्यक्षरं मन्त्रं हरिद्राचन्दनेन वा ॥ ६६ ॥ यावजीवं तु मन्त्राणं शिखायां धारयेत् सदा । महतीविद्यया प्राप्तं जपेन्मन्त्रं त्रिलक्षकम् ।। ६७ ॥ लक्षमेकं जपेद्विद्यां हविष्याशी जितेन्द्रियः उ(च्छच्च)स्थानेषु देवेशि तदासनस्य संस्थितिः ॥ ६८ ॥ पूर्वोक्तं पूजनं कृत्वा विप्राराधनतत्परः । अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् ॥ ६६ ॥ जपान्ते प्रत्यहं मन्त्री होमयेत् तद्दशांशतः । तर्पणं चाभिषेकं च तत्तद्दशांशतो मनोः ॥ ७० ॥ प्रत्यहं भोजयेद् विप्रान् न्यूनाधिक्यप्रशान्तये । अथैवं सर्वसंपूर्ण होमादिकमथाचरेत् ॥ ७१ ॥ रात्रौ बलिः सम(दाय?यस्तु)सर्वसिद्धिमभीप्सुभिः । विना दीपकमन्त्रेण अग्रे शून्यं न चार्चयेत् ॥ ७२ ॥ विनानया महादेवि विना रुधिरवेदनैः । त्रिवर्णमय्या दीपन्या मन्त्रिणी सा च कथ्यते ॥ ७३ ॥ मन्त्रार्थ मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः । शतकोटिजपेनापि कथं सिद्धिर्वरानने ॥ ७४ ॥ गुप्तजीवाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये । मन्त्राश्चैतन्यसहिताः सर्वसिद्धिकराः सदा ॥ ७५ ॥ मन्त्रोच्चारे कृते यादृक् स्वरूपप्रथ(मं?नं)भवेत् । शते सहस्रे लक्षे वा कोटिजापे न तत्फलम् ॥ ७६ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/५७
दिखावट