सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः पटलः । पर्वद्वयमनामायाः परिवर्तन वै क्रमात् । पर्वत्रयं मध्यमायास्तर्जन्येकं समाचरेत् ॥ ५३ ॥ शक्तिमाला समाख्याता सर्वमन्त्रप्रदीपनी । व्यग्रचित्तेन यज्जप्तं यज्जप्तं मेरुलङ्घने ।। ५४ ।। तत्सर्वं निष्फलं याति इत्याहुः परमेश्वरि । पर्वद्वयं हि तर्जन्या मेरुं तद्विद्धि पार्वति ॥ ५५ ॥ सिद्धये साधको जप्यान्मेरुं नत्वा पुनः पुनः । तर्जन्यग्रं तथा मध्यं यो जपेत् सोऽपि पापकृत् ॥ ५६ ॥ नित्यं जपं करे कुर्यान्नतु काम्यं कदाचन । कुल्लुकां च ततो नत्वा मालापूजां विधाय च ॥ ५७ ॥ श्रीगुरुरो]श्वर[णं?णौ) ध्यात्वा मालाया मन्त्रमुच्चरेत् । कुल्लुकां च न जानाति महामन्त्रं जपेन्नरः ॥ ५८ ॥ पञ्चत्वं जायते तस्य अथवा वातुलो भवेत् । तारिणीचण्डिकायाश्च मन्त्रः कुल्लुकवर्जितः ॥ ५६ ॥ मतिमान् यो द्विजातीनां नोपादेयः कथञ्चन । कुल्लुका शिरसि धृत्वा सर्वयज्ञफलं लभेत् ॥६॥ नान्यो विचारः सर्वत्र विरूपाक्षस्य संमतः । कुल्लुके वर्जिते पुंसां यद्यनोपस्थिीतर्भवेत् ।। ६१ ।। मम पूजा सदा व्यर्था मम यज्ञस्तथैव च । तारामन्त्रस्य जानीयात् त्र्यक्षरं मन्त्रमुत्तमम् ।। ६२ ॥ न जानाति च यो मूढः कुल्लुकां तारिणी जपेत् । यावञ्जीवं महेशानि न सिद्ध्यति कदाचन ॥ ६३ ।। ....... महामन्त्रं परित्यज्य पूजयेद्यस्तु तारिणीम् । पञ्चत्वं जायते तस्य अथवा वातुलो भवेत् ॥ ६४ ॥ १ . मूढकोलकः ख. णठः । 1