३० बृहन्नीलतन्त्रम् । चरमार्ण मेरुरूपं न लङ्घयेच्च सर्वदा । एतत्परं रहस्यं च मयोक्तं ते यशस्विनि ॥ ४१ ।। त्वया गुप्ततरं कार्यं नाख्येयं यस्य कस्यचित् । शुभे काले शुभे लग्ने शुभर्क्षे च शुभे तिथौ ॥ ४२ ॥ प्रतिष्ठां कारयेद्विद्वान् स्वयं वा गुरुणापि वा । अश्वत्थपत्रनवकं पद्माकारेण पातयेत् ।। ४३ ॥ तत्र संस्थापयेन्मन्त्री मातृकामत्रमुच्चरेत् । वह्निं संस्कृत्य देवेशि हुनेत् सुरगणार्चिते ॥ ४४ ॥ हुतशेषं प्रतिहुतौ प्रदद्याद् देवताधिया । तत्र देवीं समभ्यर्च्य ग्रहणेऽपि च पूजयेत् ॥ ४५ ॥ अनुलोमविलोमेन मातृकार्णेन मन्त्रयेत् । मेरुं प्रेतेन संमन्त्र्य तां नयेद् देवतात्मताम् ॥ ४६ ॥ एवं सर्वगुणोपेता जायते सर्वसिद्धये । स्मृतिसूत्रं वीतिहोत्रमावृत्तित्रितयं ततः ॥ ४७ ॥ दिवानिशाकरौ प्रोक्तो तस्मात्तेजस्त्रयी शुभा । गोप्तव्या ह्यनिशं सूत्रे जपमालेप्सिताप्तये ॥ ४८ ।। मातृमेयप्रमाणेन विन्दुनादकलात्मिकाम् । उच्चरेदनुसंस्कृत्य कुण्डलीयोगतः प्रिये ॥ ४६ ।। तेन विद्या लभेत् सिद्धिं नात्र कार्या विचारणा । कण्ठदेशे स्थिता मन्त्राः केवला वर्णरूपिणः ॥ ५० ॥ सौषुम्णाध्वन्युच्चरिताः प्रभुत्वं प्राप्नुवन्ति हि । ईदृश्या च स्रजा यस्तु कुरुते जपमुत्तमम् ॥ ५१ ॥ अपमृत्युकलिभ्यां च मुच्यते नात्र संशयः । अथ वक्ष्ये महेशानि अङ्गुलीनां च निर्णयम् ॥ ५२ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/५५
दिखावट