सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ चतुर्थः पटलः । स्वर्णसूत्र कृता माला साक्षाद्वैश्रवणो भवेत् । मुखे मुखं तु संयोज्य पुच्छे पुच्छं नियोजयेत् ॥ २६ ॥ गोपुच्छसदृशी माला यद्वा सर्पाकृतिर्भवेत् । मातृकावर्णसंमिश्रग्रन्थिं कुर्याद् विधानतः ॥ ३० ॥ तत्सजातीयमेकाक्षं मेरुत्वेन प्रकल्पयेत् । एवं क्रमेण ग्रथिता माला सर्वत्र शोभना ॥ ३१ ॥ एवं सा ग्रथिता माला मन्त्रसिद्धिप्रदायिनी । एकैकं मणिमादाय ब्रह्मग्रन्थिं विनिर्दिशेत् ॥ ३२ ॥ अनुलोमविलोमेन मातृकान्तर्गतं जपेत् । तेन सर्वगुणोपेता जायते सिद्धिभागिति ॥ ३३ ॥ कुल्लुकां च ततो नत्वा मालापूजां विधाय च । गृह्णीयाद् दक्षिणेनाथ नच वामेन संस्पृशेत् ॥ ३४ ॥ नाभितश्च शिरोदेशे कुल्लुकां परिकल्पयेत् । पट्टसूत्रकृता माला देव्याः प्रीतिकरी सदा ॥ ३५ ॥ अभावे चापि शङ्खस्य स्फाटिक्या मालया जपेत् । मालाविशेषं देवेशि भैरवि प्राणवल्लभे ॥ ३६ ॥ यया जप्तेन देवेशि सिद्धो भवति तत्क्षणात् । अनया सदृशी विद्या त्रैलोक्ये नास्ति सुन्दरि ॥ ३७ ॥ कृपया परमेशानि तव स्नेहात् प्रकाश्यते । परमं शृणु चार्वङ्गि शृणु पार्वति तत्त्वतः ॥ ३८ ॥ येन विज्ञानमात्रेण मन्त्राः सिध्यन्ति तत्क्षणात् । अनुलोमविलोमेन मन्त्रमा(न्तविर्भे ? त्रार्णभे )दतः ॥ ३९ ॥ मत्रेणान्तरितान् वर्णान् वर्णेनान्तरितं मनुम् । कुर्यान्ममन्त्रमयीं मालां सर्वमन्त्रप्रदीपनीम् ॥ ४० ॥