२८ बृहन्नीलतन्त्रम् । अस्मात् परतरो नास्ति सिद्धिमन्त्रो गणेश्वरि । नक्तंभोजी हविष्यान्नो जपेद् विद्यां दिवा शुचिः ॥१७॥ तत्कृत्वा सिद्धिमाप्नोति जपेच्च मनसा स्थिरम् । भूमौ शयीत तत्काले त्यजेच्च युवतीं दिवा ॥ १८ ॥ प्रातर्जपं प्रकुर्वीत मुखं शुद्ध्यति तत्परम् । हविष्यान्नं च संभुज्य ब्रह्मपुष्पं हुनेदथ ॥ १६ ॥ जपकाले महेशानि भार्यां यत्नेन वर्जयेत् । विष्णुकल्पं वर्जयेत् तु तुलसीं च विवर्जयेत् ॥ २० ॥ वर्जयेन्मालतीपुष्पमन्यदेवप्रपूजनम् । हस्तप्रक्षालनं शौचमाचारं भक्तिमांश्चरेत् ॥ २१ ॥ देवीनां च तथा पुष्पं पृथक्पात्रे नियोजयेत् । एकीभावं हि कर्तव्यं यदीच्छेच्छुभमात्मनः ।। २२ ॥ नैवेद्यादि फलैस्तोयेर्जानीयादेव एकभाक् । हविर्नानाविधैर्गन्धैः पायसैर्मोदकादिभिः ॥ २३ ॥ एवं क्रमेण भुञ्जीत दधि क्षीरं तथैव च । मालानां च महेशानि नियमं शृणु भैरवि ॥ २४ ॥ अकस्मादीहिता सिद्धिर्महाशङ्खाख्यमालया । पञ्चाशन्मणिभिर्माला निर्मिता सर्वकामदा ॥ २५ ॥ युद्धे मृतस्य देवेशि चाण्डालस्यास्थिकेन च । मस्तकस्य विशेषेण महाशङ्खः प्रकीर्तितः ॥ २६ ॥ अनया मालया देवि तारामन्त्रः प्रसिद्ध्यति । तत्संस्कारं वरारोहे शृणुष्वैकमनाः प्रिये ॥ २७ ॥ सूत्रेण ग्रथिता माला विप्रस्त्रीसूत्रनिर्मिता । पट्टसूत्रैः कृता माला जगद्वश्याय कल्पते ॥ २८ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/५३
दिखावट