सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७ चतुर्थः पटलः । कार्यो देवि वरारोहे सर्वेषां च विधिः स्मृतः । तदन्ते महतीं पूजां कुर्यात् साधकसत्तमः ॥ ५ ॥ अपूर्वां च कुमारी च भूषणैः परितोषयेत् । मन्त्राणां कीलकं कुर्यान्मन्त्रार्चनपुरस्क्रियाम् ॥ ६ ॥ ऋष्यादीनां महेशानि न्यासं कुर्यान्महेश्वरि । शृणु वक्ष्यामि देवेशि कालीतन्त्रमनोः क्रमम् ॥ ७ ॥ बिन्दुः श्रोत्रं नाद आस्यं ककारं हृदयं ततः । वह्निं नेत्रं कीलकं तु दीर्घाकारं प्रियंवदे ॥ ८ ॥ तारकं तारिणीतन्त्रे हृदयं विद्धि पार्वति । हकारं विद्धि सर्वत्र शक्तिपक्षे सुरेश्वरि ॥ ६ ॥ एवं कृत्वा हविष्याशी जपेल्लक्षमनन्यधीः । ततः प्रयोगं सर्वेषां वश्यादीनां च कारयेत् ॥ १० ॥ स्वेच्छाचारपरो मन्त्री पुरश्चरणसिद्धये । रहस्यमालामाधाय लक्षमेकं सदा जपेत् ॥ ११ ॥ एवं कृते महेशानि सिद्धमन्त्रो भविष्यति । लभते श्रीमतीं वाणीं मन्त्रस्य लक्षजापतः ॥ १२ ।। भावानवहितानां च क्षुद्राणां क्षुद्रचेतसाम् । चतुर्गुणो जपः प्रोक्तः सिद्धये नान्यथा भवेत् ॥ १३ ॥ महाचीनक्रमाशक्ता ब्राह्मणा अपि मोहने । चतुर्गुणविधानेन कुर्वन्ति जपमुत्तमम् ॥ १४ ॥ जडो वा यदि मूकः स्याद् भावनावशतत्परः । रहस्यमार्गे निरताः सर्वे वर्णा द्विजातयः ॥ १५ ॥ तदनुष्ठानविरताः सर्वे वर्णाः पृथक् पृथक् । विशेषतः कलियुगे मत्प्रसादाद् भविष्यति ॥ १६ ॥