सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ बृहन्नीलतन्त्रम् । पुष्पाणामञ्जलिं दद्याचन्दनेन समन्वितम् ।। शय्यां दद्यान्महेशानि विचित्रां सर्वमोहिनीम् ॥ ५३ ॥ खट्वां दद्यान्महेशानि विचित्राम्बरधारिणीम् । पादसेवां गुरोः कुर्यादतियत्नेन सुन्दरि ॥ ५४ ॥ गुरुवद् गुरुपुत्रेषु गुरुवत् तत्सुतादिषु । गुरुपत्नी विशेषेण पूजयेत् सर्वभोजनैः ॥ ५५ ॥ गुरुपत्नी च युवती नाभिवाद्या च पादयोः । पूर्णविंशतिवर्षेण गुणदोषौ विजानता । अत एव महेशानि न कुर्यात् पादसेवनम् ॥ ५६ ।। इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे ( दीक्षाविधिनिरूपणं) तृतीयः पटलः ॥ ३ ॥ + 9 अथ चतुर्थः पटलः । Koko अथ वक्ष्ये महेशानि पुरश्चर्याविधिं शिवे । अकृत्वा तु पुरश्चर्यां मन्त्रं जपति नित्यशः ॥ १ ॥ कल्पकाटिजपनापि तस्य सिद्धिर्न जायते । जीवहीनो यथा देही(हः) सर्वकर्मसु न क्षमः ॥ २ ॥ पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः । जपहोमौ तर्पणं चाभिषको द्विजभोजनम् ॥ ३ ॥ पञ्च कृत्यानि लोकेऽस्मिन् पुरश्चरणमुच्यते । यद्यत्संख्यं विहीयेत तत्संख्याद्विगुणं जपः ॥ ४ ॥