सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः पटलः । ३७ लभते मञ्जुलां वाणीमष्टम्यां च ततो जपेत् । मध्याह्नसमये देव्याः पूजनं सिद्धिदायकम् ॥ ५ ॥ प्रातःकाले महादेवि पूजा कार्या विधानतः । सायाह्ने च महादेवि पूजा च शस्यते बुधैः ॥ ६ ॥ अष्टम्यां पूजनं देव्याः सर्वकामफलप्रदम् । रम्भापुष्पं बीजपूरं सुगन्धिपरिमिश्रितम् ।। ७ । मिश्रीकृत्य बलिं दद्यादष्टम्यां च विशेषतः । स्वर्णमाला महादेव्यै दद्याद् गन्धैर्विशेषतः ॥ ८ ॥ फलं क्षीरं तथा दद्यादधिकं शर्करान्वितम् । तस्मात् सर्वप्रयत्नेन संपत्त्यै पूजयेच्छिवाम् ॥ ६ ॥ सूक्ष्मतण्डुलसिद्धार्थान् देव्यै दद्यात् प्रयत्नतः । अष्टम्यां च चतुर्दश्यां पूजयेच्च यथाविधि ॥ १० ॥ आज्ञासिद्धिमवाप्नोति ज(वा?पा)पुष्पं च वर्वराम् । चन्दनं चार्ककुसुमं दद्यात् श्वेतापराजिताम् ॥ ११ ।। अर्घ्यं दद्याद्विशेषेण नित्यपूजा(च सु) सर्वदा । अष्टोत्तरशतं जप्यं यावज्जीवितसंख्यया ॥ १२ ॥ यस्तु संपूजयेद् दुर्गा महाष्टम्यां प्रयत्नतः । स त्रिजन्मार्जितं पापं तत्क्षणादेव नाशयेत् ।। १३ ॥ ये जपन्ति महामायां ज्ञात्रा तत्त्वेन भैरवम् । मधुना पायसं चैव क्षीरमाज्यं च शर्कराम् ॥ १५ ॥ बलिं दद्याच्च गोधां वे चासवं च प्रशस्यते । अत्रासवमवश्यं च ब्राह्मणस्तु विशेषतः ॥ १५ ॥ आसवं च महेशानि शृणुष्वैकमनाः प्रिये ।