सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ बृहन्नीलतन्त्रम् । स्थानं शृणु वरारोहे येन सिध्यन्न संशयः । गोष्ठे शिवालये पुण्ये श्मशाने च नदीतटे ॥ २६ ॥ शून्ये च ग्रहणे पुण्ये गिरौ च सिद्धिलिप्सुकः । जानीयाच्छोभनं कालं मन्त्रस्य ग्रहणं प्रति 11 ॥ रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयम् । पुष्या शतभिषा?षक् ) चैव दीक्षानक्षत्रमुच्यते ॥ ३१ ॥ क्रमं प्रवर्त्य विधिवत् पूजाहोमौ विधाय च । विद्यां तां कथयेत् सम्यग् जीवकर्णे च तत्त्ववित् ॥ ३२ ॥ अज्ञात्वा कुल्लुकां देवीमनत्वा गुरुपादुकाम् । अदत्त्वा दक्षिणां सम्यगकृत्वा कुलपूजनम् ॥ ३३ ॥ योऽस्मिस्तन्त्रे प्रवर्तेत न तं पीडयसे ध्रुवम् । इषे मासि विशेषेण धर्मकामार्थसिद्धये ॥ ३४ ॥ नात्र कालविचारादि नच नक्षत्रशोधनम् । अष्टोत्तरशतं होमं बिल्वपत्रेण कारयेत् ॥ ३५ ॥ अष्टावष्टादश कुर्यादष्टाविंशतिमेव च । पायसं कृसरं दद्याद् गोधामांसमनुत्तमम् ॥ ३६ ॥ रम्भापुष्पं शालमत्स्यं जुहुयाच्च प्रयत्नतः यवक्षीरं ततो दद्याच्छाल्यन्नं मधुना युतम् ।। ३७ ॥ नारिकेलफलं दद्यात् स्वर्णाद्याभरणं तथा । गोभूहिरण्यवस्त्राद्यैस्तोषयेद् गुरुमात्मनः ॥ ३८ ॥ दक्षिणा च विशेषेण दातव्येति महेश्वरि । गुरवे दक्षिणां दद्यात् प्रत्यक्षाय शिवात्मने ॥ ३९ ॥ न चेत् संचारिणी शक्तिः कथमस्य भविष्यति । सर्वस्वं दक्षिणां दद्याद् धेनुं दद्यात् पयस्विनीम् ॥ ४० ॥ 1