२२ 11 बृहन्नीलतन्त्रम् । दीक्षामू(लं?ला) परा सिद्धिस्तस्माद् दीक्षां समाचरेत् । दीक्षाहीनो महादेवि रौरवं नरकं व्रजेत् ॥ ५ ॥ अदीक्षिताद्यदि शुभे किश्चिदादाय भोजयेत् । वृथा पानं भवेत् सर्व तस्मात् सर्वं विवर्जयेत् ॥ ६ ॥ अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते । अन्नं विष्टासमं तेषां तोयं मूत्रसमं स्मृतम् ॥ ७ ॥ तस्मात् सर्वप्रयत्नेन सद्गुरोर्दीक्षितो भवेत् । सद्गुरोराहितदीक्षः सर्वकर्माणि कारयेत् ॥ गुरुं विना महादेवि वृथा दीक्षा च जायते । कल्पे दृष्ट्वा तु मत्रं वै यो गृह्णाति नराधमः ॥ ६ ॥ मन्वन्तरसहस्रेषु निष्कृ(ते?ति)र्नैव जायते । गुरोर्मुखान्महाविद्या सर्वपापप्रणाशिनी ॥ १० ॥ सद्गुरुं त्वं महादेवि कथ्यमानं मया शृणु । बहिरिन्द्रियहर्ता च गुरुः सर्वत्र दुर्लभः ॥ ११ ॥ अन्तरिन्दियहर्ता च गुरुः ! सर्वत्र शोभनः । अनिन्दितवेशधारी कपटेन विनाकृतः ॥ १२ ॥ आचारवान् महाविद्याराधनेषु च तत्परः । तत्कल्पाचारशक्तश्च गुरुरित्यभिधीयते ॥ १३ ॥ कौलज्ञानी महायोगी गुरुरेव च दैवतम् । कुलीनः सर्वमन्त्राणां दाता सर्वेषु सुन्दरि ॥ १४ ॥ दीक्षा(भ्रप्र)भुः स एवात्मा नापरो वेदपारगः । उत्पादकब्रह्मदात्रोगरीयान् कौलनायकः ॥ १५ ॥ तस्मान्मन्येत सततं पितुरप्यधिको गुरुः । ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः क्रिया ॥ १६ ॥ 4 १ 'धर्म' क. पाठः ।
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/४७
दिखावट