सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः पटलः । २१ र्व्चयंलेह्यान्नपानादि ताम्बूलस्रग्विलेपनम् । निर्माल्यभोजनं तुभ्यं ददामि श्रीशिवाज्ञया ॥ १५५ ॥ शिरोलग्नं ततः कृत्वा निर्माल्यं शिष्टमेव च विप्राय दद्यान्नैवेद्यं कुमारीभ्यस्तथैव च किश्चित् स्वयं च स्वीकृत्य विहरेत् सर्वदा भुवि ॥१५६॥ च । । इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे (षोडशोपचारपूजास्तो- त्रादिनिरूपणं) द्वितीयः पटलः ॥ २॥ अथ तृतीयः पटलः । । श्रीदेव्युवाच । देवदेव महादेव अनाथानां दयाकर दीक्षाविधिं महादेव कथयस्व समासतः ॥ १ ॥ श्रीभैरव उवाच । शृणु सुन्दरि सर्वेशि कथ्यमानं मयानघे । तया विना महादेवि ह्यधिकारो न कर्मणि ॥ २ ॥ सर्वाश्रमेषु भूतेषु सर्वदेवेषु सुव्रते । दीक्षां विना महादेवि सर्वं तस्य वृथा भवेत् ॥ ३ ॥ तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् । दीक्षामूलं जगत्सर्वं दीक्षामूलं परं तपः ॥ ४ ॥ "जपं ' ख. पाठः ।