सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० बृहन्नीलतन्त्रम् । लक्ष्मीः सिद्धिगणश्च वादकमुखस्तम्भस्तथा वारिणः स्तम्भश्चापि रणाङ्गने गजघटास्तंभस्तथा मोहनम् । मातस्त्वत्पदसेवया खलु नृणां सिध्यन्ति ते ते गुणाः कान्तिः कान्तमनोभवस्य भवति क्षुद्रोऽपि वाचस्पतिः ।१४४। ताराष्टकमिदं पुण्यं भक्तिमान् यः पठेन्नरः । प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः ॥ १४५ ॥ लभते कवितां दिव्यां सर्वशास्त्रार्थविद्भवेत् । लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान् ॥१४६ ॥ कीर्ति कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत् । विख्या(तंतिं) चापि लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् ॥१४७॥ अनेन स्तवराजेन स्तुत्वा देवीं सरस्वतीम् । इहैव सर्वकामान् वै भुक्त्वा मोक्षमवाप्नुयात् ॥ १४८ ॥ अस्मात् परतरं नास्ति स्तवेषु सुरवन्दिते । कलौ तु सर्वयत्नेन सर्वं त्यक्वा स्तवं पठेत् ॥ १४६ ॥ अष्टाङ्गं प्रणिपत्यादौ भवेत् साक्षात् सदाशिवः । पद्भ्यां कराभ्यां जानुभ्यासुरसा शिरसा दृशा ॥ १५० ॥ मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः त्रिकोणाकारिका चैव तारायाः परिकीर्तिता ॥ १५१ ॥ एवं नतिं पुरस्कृत्य सुगन्धिं. लेपयेत् ततः । सुषुम्नामार्गकेणैव क्षमस्वेति हृदा नयेत् ॥ १५२ ॥ प्राणायामं पुनः कृत्वा स्वमात्मानं विभावयेत् । पुष्पग्रहणमन्त्रं च शृणुष्वैकमनाः प्रिये ॥ १५३ ॥ वाग्भवं प्रथमं दद्यान्निर्माल्यपदमन्तरम् । वासिन्यै च पदस्यान्ते नम उच्चार्य पूजयेत् ॥ १५४ ॥ वैरिणः" ख. पाठः । २ 66 9 रम्यं 99 ख. पाठः ।