बृहन्नीलतन्त्रम् । इदं स्तोत्रं पठेद्यस्तु स(ततं?धनं) लभते नरः । तस्य शत्रुः क्षयं याति महाप्रज्ञा च जायते ॥ १२६ ॥ पीडायां वापि संग्रामे जप्ये दाने तथा भये । य इदं पठति स्तोत्रं शुभं तस्य न संशयः ॥ १३०॥ स्तोत्रेणानेन देवेशि स्तुत्वा देवीं सुरेश्वरीम् । सर्वकाममवाप्नोति सर्वविद्यानिधिर्भवेत् ॥ १३१ ॥ इति ते कथितं दिव्यं स्तोत्रं सारस्वतप्रदम् । अस्मात्परतरं स्तोत्रं नास्ति तत्र महेश्वरि ॥ १३२ ॥ एवं स्तुत्वा महादेवीं दण्डवत् प्रणिपत्य च आत्मानं च समर्प्याथ योनिमुद्रां प्रदर्शयेत् ॥ १३३ ॥ अथ वक्ष्ये महेशानि ताराष्टकमिमं परम् । पठनाद्यस्य देवेशि शिवत्वं गतवान् (प्रिये?अहम् ) ॥१३४॥ शतकृ (ता?त्वः) प्रपठनाच्छत्रुनाशो भवेद् ध्रुवम् । अष्टाविंशतिपाठाच्च राजा च दासतामियात् ॥ १३५ 11 अष्टवारं प्रपठनात् सर्वसिद्धीश्वरो भवेत् । स्तवं शृणु वरारोहे येन राजा भविष्यति ॥ १३६ ॥ मातर्नीलसरस्वति प्रणमतां सौभाग्यसंपत्प्रदे प्रत्यालीढपदस्थित शिवहृदि स्मेराननाम्भोरुहे । फुल्लेन्दीवरलोचनत्रययुते क(र्तृत्रीं) कपालोत्पले खङ्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥१३७|| वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्चरि' 11. गद्यप्राकृतपद्यजातिरचनासर्वार्थसिद्धिप्रदे । महोत्पाते" ख. पाठः । २ "सिद्धिप्रदे” इति पाठान्तरम् सर्वत्र N 1 " 9 9 9 जातरचना " ख. पाठः ।
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/४३
दिखावट