सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७ द्वितीयः पटलः । त(दे?दै)व सिद्धिमाप्नोति सत्यं सत्यं सुनिश्चितम् । स्तुतिं कुर्यान्महेशानि देव्यग्रे शुद्धमानसः ॥ ११८ ॥ घोररूपे महारावे सर्वशत्रुवशङ्करि' । भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥११६ ॥ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते । जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥ १२० ॥ जटाजूटसमायुक्ते लोलजिह्वानुकारिणि । द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ॥ १२१ ॥ सौम्यरूपे घोररूपे चण्डरूपे नमोऽस्तु ते । दृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ १२२ ।। जडानां जडतां हंसि भक्तानां भक्तवत्सले । मूढतां हर मे देवि त्राहि मां शरणागतम् ॥ १२३ ।। हूंहूंकारमये देवि बलिहोमप्रिये नमः । उग्रतारे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ १२४ ॥ बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे । कुबुद्धिं हर मे देवि त्राहि मां शरणागतम् ॥ १२५ ॥ इन्द्रादि(दिवि देव) सद्वृन्दवन्दिते करुणामयि । तारे ताराधिनाथास्ये त्राहि मां शरणागतम् ॥ १२६ ॥ अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेत(सःसा') । षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा ॥१२७ ॥ मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् । विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् ॥ १२८ ॥ ५ . " १ "क्षयङ्करि" पाठः । २ 'क्रोध' पाठः । ३ 'सृष्टि' ख. पामः । ४ 'जडतां भजतां' ख. पाठः । ५ 'मूदत्वं' ख. पाठः ६ "यः पठेन्नरः" पाठः ।