सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ । । बृहन्नीलतन्त्रम् । बलिं गृह्णपदद्वन्द्वं गृह्णापयपदद्वयम् । मम शान्तिं कुरुकुरु परविद्यां पदं ततः आकृष्य च पदद्वन्द्वं त्रुटद्वन्द्वं ततः परम् । छिन्धिद्वन्द्वं महेशानि सर्वपदमनन्तरम् ॥ १०७ ॥ जगत्पदं महेशानि वशमानय तत्परम् । अनेन मनुना देवि बलिं दत्त्वा जपं चरेत् ॥ १०८ ॥ सहस्रं प्रजपेन्मन्त्रं शतं वापि महेश्वरि । विंशत्या वा जपेन्मन्त्रं ततो न्यूनं नचाचरेत् ॥१०६ ॥ हृदा सरस्वती यावद् विद्याया व्याप्तिरुच्यते मन्त्रध्यानं प्रवक्ष्यामि जपात् सार्वज्ञ्यदायकम् ॥ ११० ॥ मन्त्रध्यानान्महेशानि शुध्यते ब्रह्महा यतः मूलचक्रे तु ह्रल्लेखां सूर्यकोटिसमप्रभाम् ॥ १११ ॥ स्वाधिष्ठाने पीतवर्णं द्वितीयार्ण विभावयेत् । नाभौ जीमूतसंकाशं कूर्चबीजं महाप्रभम् ॥ ११२ ॥ अखबीजं हृदि ध्यायेत् कालाग्निसदृशप्रभम् । मूलादिब्रह्मरन्ध्रान्तं सर्वा विद्यां विभावयेत् ॥ ११३ ॥ सूर्यकोटिप्रतीकाशां योगिभिर्दृष्टपूर्विकाम् । (अथवा पूर्णचन्द्राभं कूर्च मूर्ध्नि सुधाप्लुतम् ॥ ११४ ॥ अथवा सर्वां विद्यां तां जिह्वायां दीपरूपिणीम् । तत्प्रभापटलव्याप्तां जिह्वामपि विचिन्तयेत् ॥ ११५ । जिह्वायां न्यसनाद् देवि मृकोऽपि सुकविर्भवेत् ।) गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ॥ ११६ ॥ सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि । एतत्पूजाक्रमं रात्रौ यदि कुर्यात् परात्मिके ॥ ११७ ॥ .