सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

। बृहन्नीलतन्त्रम् । 1 नैवेद्यं परमं रम्यं सुस्वादु सुमनोहरम् । दद्याच्चैवं महादेव्यै भक्तियुक्तेन चेतसा ॥ ८२ ।। मधुपर्क विशेषेण देवीप्रीतिकरं परम् । संदेशमुष्णं दद्याच्च लड्डुकादिसमन्वितम् ॥ ८३ ॥ पायसं कृसरं दद्याच्छर्करागुडसंयुतम् । आज्यं दधि मधून्मिश्रं तथान्नानि निवेदयेत् ॥ ८४ ॥ शालमत्स्यं च पाठीनं गोधिकामांसमुत्तमम् । अन्नं च मधुना मिश्रं यत्नाद् दद्याच्च मन्त्रवित् ॥ ८५ ॥ छागमांसं तथा देवि रोहितं मत्स्यभर्जितम् । योनिमुद्रां प्रदर्श्याथ आज्ञां प्राप्य यथाविधि ॥ ८६ ॥ मातर्देवि महामाये बन्धमोक्षप्रवर्तिनि । आज्ञापय महादेवि गुरुत्रयमनुत्तमम् ॥ ८७ ॥ पूजयामि महामाये सर्वसारस्वतप्रदम् । उवाच सादरं देवी भगवन्तमधोक्षजम् ॥ ८८ ॥ गुरुत्रयं महादेव श्रोतुमिच्छामि यत्नतः । श्रीभैरव उवाच । अज्ञात्वा गुरुदेवं च नष्टमार्गों भविष्यति ॥ ८६ ॥ नष्टमार्गे मन्त्रविद्ये न तादृक् सिद्धिगोचरे । गुरूणां शिष्यभूतानां नास्ति चेत् सन्ततिक्रमः ॥ १० ॥ तन्त्रमन्त्राश्च विद्याश्च निष्फला नात्र संशयः अज्ञात्वा गुरुवंश्यानां शिष्यश्च नष्टसन्ततिः ॥ ११ ॥ स्ववंशादधिकं ज्ञेयं गुरुवंशं शुभावहम् । सिद्धौघा गुरवो देवि दिव्यौघा गुरवस्तथा ॥ १२ ॥ ऊर्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः । परापरगुरूणां च निर्णयं शृणु भैरवि ॥ १३ ॥ ।