सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ बृहन्नीलतन्त्रम् । कपालपात्रं संस्थाप्य रक्तगन्धादिकं ततः । रक्तपुष्पं ततो दद्याद् देवता सुप्रसीदति ॥ ५८ ॥ दशधा मूलविद्यां च जात्वा प्रोक्षणमाचरेत् । प्राणायामं ततः कुर्यात् षडङ्गेन समन्वितम् ॥ ५६ ॥ अक्षोभ्य ऋषिरेतस्या बृहती च्छन्द ईरितम् । नीलासरस्वती देवी त्रैलोक्ये च सुगोपिता ॥ ६० ॥ हूं बीजमस्त्रं शक्तिः स्याच्चतुर्वर्गफलप्रदम् । मायाषड्दीर्घयुक्तेन षडङ्गन्यासमाचरेत् ॥ ६१ ॥ एवं न्यासविधिं कृत्वा ताराषोढां समाचरेत् । विद्यया पुटितं कृत्वा षोढा च मातृकां न्यसेत् ॥ ६२ ॥ क्रमोत्क्रमाद् वरारोहे ताराषोढा प्रकीर्तिता । यस्त्वेवं कुरुते मन्त्री स तु तारा प्रकीर्तितः ॥ ६३ ॥ तस्य लोके गुरुर्नास्ति स गुरुः सर्वयोगिनाम् । बीजान्ते चैकजटायै हृदयं परिकीर्तितम् ॥ ६४ ॥ तारिण्यै शिरसे स्वाहा तद्वद्वज्रोदके शिखा । उग्रजटे च कवचं महाप्रतिसरे तथा ॥ ६५ ॥ पिङ्गोग्रैकजटे तद्वन्नेत्रास्त्रे परिकीर्तिते । यथा काली तथा नीला तत्क्रमान्मातृकां न्यसेत् ॥ ६६ ॥ देवेशि भक्तिसुलभे परिवारसमन्विते । यावत्त्वां पूजायष्यामि तावत्वं सुस्थिरा भव ।। ६७ ॥ सर्वं मत्रमयं कृत्वा देवतायै निवेदयेत् । उपचारैःषोडशभिः पूजयेद् गन्धपुष्पतः ॥ ६८ ॥ पाद्यार्घ्याचमस्नानवसनाभरणानि च । गन्धपुष्पधूपदीपनैवेद्याचमनं ततः ॥ ६६ ॥