सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । ज्ञानं तथा च ज्ञानार्थी मोक्षार्थी मोक्षमेव च । सर्वार्थी प्राप्नुयात् सर्वं . यत्रस्यास्य प्रसादतः ॥ ३५ ॥ व्योमेन्दौरसनार्णकर्णिकमचा द्वन्द्वैः स्फुरत्केसरं वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् । ताराधीश्वरवारिवर्णविलसद्दिक्कोणसंशोभितं यत्रं नीलतनोः परं निगदितं सर्वार्थसिद्धिप्रदम् ॥३६॥ यन्त्रं निर्माय देवेशि पीठपूजां समाचरेत् । गन्धर्वोक्लप्रकारेण पूजयेदावृतीस्ततः ।। ३७ ॥ योनिमुद्रां ततो बध्वा चक्रमध्ये प्रपूजयेत् । पूर्वे गणपतिं चेष्ट्वा दक्षिणे बटुभैरवम् ॥ ३८ ॥ क्षेत्रपालं पश्चिमे च योगिनीरुत्तरे यजेत् । ते सर्वे ध्रुवदीर्घाद्याः शक्तिबीजपुरःसराः ।। ३६ ॥ ततोऽष्टदलमध्ये तु लक्ष्म्यादीश्च प्रपूजयेत् । लक्ष्मीं सरस्वतीं चैव रतिं प्रीति तथा यजेत् ॥ ४० ॥ कीति शक्तिं च पुष्टिं च तुष्टिं चैव प्रपूजयेत् । देव्या नीलसरस्वत्याः पीठशक्त्य ईरिताः ॥ ४१ ॥ प्रणवादिनमोन्तेन पूजयेद् यत्नतः सुधीः । भूतशुद्धिं ततः कुर्यात् प्राणायामक्रमेण तु ॥ ४२ ॥ भूतशुद्धिं विधायाथ शून्यं विश्वं विचिन्तयेत् । निर्लेपं निर्गुणं शुद्धं स्वात्मानं तारिणामयम् ॥ ४३ ॥ अन्तरिक्षे ततो ध्यायेत् आःकाराद्रक्तपङ्कजम् । भूयस्तस्योपरि ध्यायेत् टांकाराच्छेतपङ्कजम् ॥ १४ ॥ तस्योपरि पुनर्ध्यायेत् हूँकारं नीलसन्निभम् । ततो हूँकारबीजात्तु कर्त्रिकां बीजभूषिताम् ॥ ४५ ॥ १ 'वृत्तेन' ख. पाठः । २ 'कान्ति शान्ति . ख. पाठः ।