सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः पटलः। मन्त्रं शृणु वरारोहे सर्वसारस्वतप्रदम् । प्रणवं पूर्वमुच्चार्य सर्वविघ्नान् समादिशेत् ॥ २३ ॥ तत्परं च पुनर्देवि उत्सारय तदनन्तरम् । कूर्चः स्वाहावधिर्मन्त्रः सर्वसिद्धिफलप्रदः ॥ २४ ॥ प्रणवं पूर्वमुच्चार्य पवित्रपदमन्ततः । वज्रभूम-पदं पश्चाद् हूँफट्स्वाहावधिर्मनुः ॥ २५ ॥ मत्रेणानेन देवेशि कुर्याद् भूम्यभिमन्त्रणम् । प्रणवं पूर्वमुच्चार्य आः-पदं तदनन्तरम् ॥ २६ ॥ सुरेखे वज्ररेखे च हूंफट्स्वाहावधिर्मनुः । रक्तचन्दनपुष्पाभ्यां पूजयित्वासनं सुधीः ॥ २७ ॥ विशेत् तत्रासने देवि ततः पूजनमारभेत् । शिखाबन्धनमन्त्रेण वस्त्रग्रन्थिं च बन्धयेत् ॥ २८ ॥ पूर्वोक्तेनैव मन्त्रेण चित्तादीनां विशोधनम् । कुर्यान्मन्त्रं महेशानि रक्तगन्धादिना शुभे ॥ २६ ।। स्वर्णादिपात्रे संलिख्य तत्रार्णान् संलिखेत् सुधीः । आःसुरेखे वज्ररेखे हूँफट्स्वाहा नमः-पदम् ॥ ३० ॥ मन्त्रणानेन देवेशि पद्ममष्टदलं लिखेत् । तन्मन्त्रेणैव देवेशि वसुपत्रं मनोहरम् ॥ ३१ ॥ पूर्वे त्रिकोणे देवेशि मायाबीजं लिखेच्छुभे । याम्ये वधूं लिखेच्चैव उत्तरे फंद्विठान्तकम् ॥ ३२ ॥ पश्चिमे च महादेवि टंकारं विलिखेत् ततः । तन्मध्ये परमेशानि लिखेत् कूर्च समाहितः ॥ ३३ ॥ अथवान्यप्रकारेण यत्रं शृणु गणेश्वरि । विद्यार्थी प्राप्नुयाद्विद्यां सर्वशास्त्रविवबोधिकाम् ॥ ३४ ॥