सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । तन्मध्ये चिन्तयेद् देवीं यथोक्तध्यानयोगतः । एवं ध्यानं महेशानि हृदि कुर्याच्छुचिस्मिते ॥ ११ ॥ शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् । गन्धानां पञ्चकं दद्याद् रक्तमालां निधापयेत् ॥ १२ ॥ ह्रींकारं धारयेद् हस्ते स्वर्णाभरणभूषितः । रक्तवस्त्रद्वययुतः क्रोधपैशुन्यवर्जितः ॥ १३ ॥ प्रणवं पूर्वमुच्चार्य वज्रोदके ततः परम् । ततः कूर्च महादेवि फट्स्वाहा तदनन्तरम् ॥ १४ ॥ मन्त्रेणानेन देवेशि शोधयेज्जलमुत्तमम् । प्रणवं च ततो माया विशुद्धं तदनन्तरम् ॥ १५ ॥ सर्वपापानि तत्पश्चाच्छमय तदनन्तरम् । अशेषान्ते विकल्पं वापनयेति ततः परम् ॥ १६ ॥ हुंफट्स्वाहावधिर्मत्रो हस्तक्षालनके मतः । प्रणवं च ततः कूर्च फट्स्वाहा तदनन्तरम् ॥ १७ ॥ मत्रेणानेन देवेशि आचमेत् साधकोत्तमः । प्रणवं मणिधरि-पदं वज्रिणीति पदं ततः ॥ १८ ॥ वशकरीति च पदं हूंफट्स्वाहावधिर्मनुः । मन्त्रेणानेन देवेशि शिखाबन्धनमाचरेत् ।। १६ ॥ ओंकारं पूर्वमुच्चार्य रक्षरक्ष-पदं ततः । हूंफट्स्वाहेति मन्त्रेण भूमिशोधनमाचरेत् ॥ २० ॥ मन्त्रपूतेन तोयेन प्रोक्षयेद् यागमण्डपम् । चतुद्वारे महेशानि गणेशं बटुकं तथा ॥ २१ ॥ क्षेत्रेशं योगिनीश्चैव पूजयेद् बहुयत्नतः । तथा चैव महेशानि मुद्रां कुर्याद् विशेषतः ॥ २२ ॥ १ मुद्रां म् ।