सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ द्वितीयः पटलः । इदानीं शृणु चार्वङ्गि पूजां सर्वांगमोदिताम् । यां कृत्वा परमेशानि शिवत्वं प्राप्नुयादतः ॥ १ ॥ कार्यां सर्वप्रयत्नेन पूजां कुर्याच्छुचिस्मिते । एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे ॥ २ ॥ तत्रस्थः साधयेद्योगी विद्यां त्रिभुवनेश्वरीम् । पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते ॥ ३ ॥ तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा । उज्जटे पर्वते वापि निर्जने वा चतुष्पथे ॥ ४ ॥ हर्ये वा साधयेद् देवीं सर्वाभीष्टप्रदायिनीम् । गणेशं क्षेत्रपालं च योगिनीर्वटुकं तथा ॥ ५ ॥ गांवांक्षायां च बीजानि तान्युक्तानि महेश्वरि । पूजयित्वा गृहद्वारे ब्रह्माणं पूजयेत् ततः ॥ ६ ॥ मनसा वास्तुदेवं च पूर्वेण तु ततः सुधीः । ततस्तत्पुरुषान् विघ्नरूपांश्चैव निवारयेत् ॥ ७ ।। योगस्थानं समाश्रित्य तत्र पीठं विचिन्तयेत् । श्मशानं तत्र संचिन्त्य तत्र कल्पद्रुमं स्मरेत् ॥ ८ ॥ तन्मूले मणिपीठं च नानामणिविभूषितम् । नानालङ्कारभूषाढ्यं मुनिदेवैर्विभूषितम् ॥ ६ ॥ शिवाभिर्बहुमांसास्थिमोदमानाभिरन्ततः । चतुर्दिज्क्षु महेशानि शवमुण्डास्थिभूषितम् ॥ १० ॥ १ 'मीक्षते' ख. पाठः । २ यथा