६ बृहन्नीलतन्त्रम् । तीर्थोदकं तिलकल्कं क्षीराक्षतसमन्वितम् । उत्तराशामुखो भूत्वा देवीमात्रं च तर्पयेत् ॥ ५६ ॥ मूलान्ते तारिणी चोक्त्वा तर्पयाम्यग्निवल्लभाम् । स्वर्णपात्रेण रौप्येण ताम्रपात्रेण वा पुनः ॥ ५७ ॥ ऋजुदर्भत्रयेणैव सन्तर्प्य भक्तितः सुधीः । दक्षिणाशामुखो भूत्वा संगृह्य मोटकं ततः ॥ ५८ ॥ तृप्यन्तु पितरः प्रोक्त्वा एततर्पणमादिशेत् । सूर्यस्य वन्दनं चैवमभेदं च महेश्वरि ॥ ५६ ॥ गायत्री प्रजपेद् धीमानघमर्षणपूर्वकम् । एतत्संध्यात्रयेणैव दिवा रात्रौ च वन्दना ॥ ६० ॥ महारात्रावपि सदा कार्या देशिकसत्तमैः । संध्या त्ववश्यकर्तव्या त्रिसंध्यं श्रद्धयान्वितः ॥ ६१ ॥ संध्यया प्रविहीनो यो न दीक्षाफलमाप्नुयात् । अर्धरात्रात् परं यच्च मुहूर्तद्वयमेव च ॥ ६२ ॥ सा महारात्रिरुद्दिष्टा तत्र कृत्वाक्षयं भवेत् । ततो विद्यां हृदि ध्यात्वा अष्टोत्तरशतं जपेत् ॥ ६३ ॥ तत्रैवोतक्रमेणैव तात्रिकं स्नानमाचरेत् । वैदिकी तात्रिकीं संध्यां ततः कुर्यात् समाहितः ॥ ६४ ॥ चतुर्विधानि कार्याणि वेदकार्येषु पार्वति । आगमं न तथा विद्धि एकमेव हि मद्वचः ।। ६५ ॥ संध्यां सायन्तनी कुर्याद् द्वादश्यादिष्वपि प्रिये । अकुर्वन् निरयं याति यतो नित्यागमक्रिया ॥ ६६ ॥ इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे (मूलमत्रोद्धारपूर्वं सन्ध्याविधिनिरूपणं) प्रथमः पटलः ॥१॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/३१
दिखावट