सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ . बृहन्नीलतन्त्रम् । सर्वमङ्गलसंपन्नः स्नानकर्म समारभेत् । मृत्कुशानपि संगृह्य गत्वा जलान्तिकं ततः ॥ ३२॥ मलापकर्षणं कृत्वा मन्त्रस्नानं समाचरेत् । पुनर्निमज्ज्य पयसि संकल्पं स समाचरेत् ॥ ३३ ॥ इष्टदेव्याः प्रपूजार्थं कुर्यात् स्नानं जलाशये । बिल्वाक्षतमोडूपुष्पं कुलपुष्पं कुशाञ्जलम् ॥ ३४ ॥ प्रस्थग्राहे ताम्रपात्रे कृत्वा चायं निवेदयेत् । मूलान्ते चोद्यदादित्यमण्डलमध्यवर्तिन्यै ॥ ३५ ॥ शिवचैतन्यमय्यै (च) स्वाहेति तन्मनुः स्मृतः । मूर्तिभेदे महेशानि स्नानमन्यच्छृणु प्रिये ॥ ३६ ॥ प्रोत्थाय चोत्तरे यामे शिरःपद्मे गुरुं स्मरन् । मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् ॥ ३७ ॥ प्रोद्यत्सूर्यप्रतीकाशां कुण्डलीं परदेवताम् । यातायातक्रमेणैव चामृतीकृतविग्रहाम् ॥ ३८ ॥ मूलविद्यां जपेद् ध्यात्वा चाष्टोत्तरशतं क्रमात् । मृत्कुशानपि संगृह्य गत्वा जलान्तिकं ततः ॥ ३९ ॥ प्रत्यूषसि गुरोश्चिन्तां कृत्वा स्नानं समाचरेत् । नद्यादिं समनुप्राप्य स्नायादप्सु महेश्वरि ॥ ४० ॥ देवीरूपं जलं ध्यात्वा गृहीत्वा जलदर्भकम् । मलापकर्षणं कृत्वा मन्त्रस्नानं समाचरेत् ॥ ४१ ॥ तत्प्रीत्यै परमेशानि स्नानं कुर्यात् समाहितः । श्रादौ च वैदिकी संध्यां कृत्वा स्नानं समाचरेत् ॥ ४२ ॥ (पश्चात्तु तात्रिकीं सन्ध्यां) कुर्याच्चैवागमोदिताम् । संध्यां कृत्वा ततो वीरः कुलकोटिं समुद्धरेत् ॥ ४३ ॥ १ 'संग्राह्य ख. पाठः । २ 'नित्य' ख. पाठः ।