सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५५ चतुर्विशः पटलः । इन्द्रोऽपि परमेशानि तिरस्कृत इवापरः । तस्यैव जननी धन्या पिता तस्य सुरोत्तमः ॥ ४३ ॥ संप्रदायविदां वक्त्राद् य एता वेत्ति तत्वतः । एतासां ज्ञानमात्रेण कुलकोटीः समुद्धरेत् ॥ ४४ ॥ नन्दन्ति पितरः सर्वे गाथां गायन्ति ते मुदा । अपि चास्मत्कुले कश्चित् कुलज्ञानी भविष्यति ॥ ४५ ॥ एष्टव्या बहवः पुत्रा यद्यप्येकः कुलं वसेत् । किं गयापिण्डदानेन किं काशीगमनेन च ॥ ४६ ॥ यदि भाग्यवशेनैव कालीं सरस्वती शिवे । अन्नपूर्णा महादेवी पूजयति गृहाङ्गने ॥ ४७ ।। स ब्राह्मणः स वेदज्ञः स वशी सच साधकः । स तीर्थवासी पीठानां चतुर्थाश्रमिणो यथा ॥ ४८ ॥ स संन्यासी महायोगी जीवन्मुक्तो भविष्यति । पापं पुण्यं महादेवि तस्य नास्ति वरानने ॥ ४६ ॥ हिंसादिजनितो दोषो नास्त्येव वरवर्णिनि । अपि चेत् त्वत्समा नारी मत्समः पुरुषो यदि ॥ ५० ॥ एतासां सिद्धविद्यानां समो मन्त्रोऽस्ति वै तदा । मन्त्रं संत्यज्य चान्येषां एतन्मन्त्रं समाश्रयेत् ॥ ५१ ।। कोटीनां तिसृणां मध्ये तन्त्रसारं प्रकाशितम् । यदुक्तं परमेशानि तत्कर्तव्यमहर्निशम् ॥ ५२ ॥ एतत् तन्त्रं महेशानि यद्गृहे तिष्ठति प्रिये । मत्सांनिध्य महेशानि तत्र तिष्ठति निश्चितम् ॥ ५३ ॥ सर्वविद्या भवत्येव संशयो नास्ति कश्चन । ऐश्वर्यं रोगराहित्यं सदा भवति तद्गृहे ॥ ५४ ॥