सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । अरोगी जायते सुभ्रु ! सर्वशास्त्रार्थविद्भवेत् । अन्नचिन्ता तस्य वंशे न जायते सुरेश्वरि ॥ ३१ ॥ स भवेत् परमेशानि त्रैलोक्यविजयी प्रभुः । वन्ध्यापि लभते पुत्रं कन्या विन्दति सत्पतिम् ॥ ३२ ॥ पठनाद्धारणाद् वापि नरो सर्वमयो भवेत् । गुह्याद् गुह्यतरं स्तोत्रं सर्वतन्त्रेषु गोपितम् ॥ ३३ ॥ तव स्नेहाद् वरारोहे प्रकाशितमिदं पुरः । न प्रकाश्यं महादेवि न प्रकाश्यं कदाचन ॥ ३४ ॥ मद्भक्ताय महेशानि प्रकाशमुपपादय । व्यासादयो वशिष्ठाद्याः सर्वे च तदुपासकाः ॥ ३५ ॥ एकान्नपूर्णा देवेशी रूपभेदादनेकधा | m काली तारा महाविद्या चान्नदा परमेश्वरी ॥ ३६ ॥ एता विद्या महादेवि सिद्धविद्याः कलौ युगे । अनेकजन्मसौभाग्याद् यद्यताः परमेश्वरि ॥ ३७ ।। प्राप्नुवन्ति वरारोहे तेषां पुण्यफलं शृणु । यदि भाग्यवशेनैव एतासां सदुपासकः ॥ ३८ ॥ स कविः सच विज्ञानी सच साधकसत्तमः । एतन्मन्त्रग्रहादेव सिद्धो भवति मानवः ॥ ३९ ॥ एतन्मन्त्रं समादाय धर्मकामार्थमुक्तिषु । नासाध्यं मेनिरे देवि साधकाः वीतमत्सराः ॥ ४० ॥ ऐश्वर्येण महादेवि कुबेर इव जायते । य एताः पूजयेन्नित्यं प्रत्यहं भक्तिभावतः ॥ ४१ ।। तस्यैवाज्ञाकराः सर्वे सिद्धयोऽष्टौ भवन्ति हि । तस्यैव धनसंपत्तिं दृष्ट्वैव परमेश्वरि ॥ ४२ ॥