सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्विंशः पटलः । २५३ मदोन्मत्ता स्वरूपाङ्गी पूर्णचन्द्रनिभानना । शिवप्राणा शिवरता (४०) सदाशिवमहाधना ॥ १६ ॥ महादेवप्रिया साध्वी सती कामालसा प्रिया । कोमलाङ्गी कामकला कला काष्ठा (५०) यशस्विनी ॥ २० ॥ प्रफुल्लपद्मवदना तथा पद्मालया शिवा । भवानी भवनप्रीता पद्मासनसमाश्रया ॥ २१ ॥ वेष्टिता सिद्धगन्धर्वैः संस्तुता ऋषिभिस्तथा । शिवेन सह संविष्टा (६०) शिवक्रीडनतत्परा ॥ २२ ॥ युवती यौवनप्रीता नित्ययौवनतत्परा । सदा षोडशवर्षीया सदाशिवमनोरमा ॥ २३ ॥ चारुरूपधरा चारुवक्त्रा चारुपराक्रमा । चार्वङ्गी (७०) कनकाङ्गी च कनकोपरि-संस्थिता ॥ २४ ॥ अन्नपूर्णा सदापूर्णा भूषणा स्वर्णकङ्कणा । भक्तप्राणा भक्तरता भक्तभोजनतत्परा ॥ २५ ॥ आज्यप्रिया (८०) विरूपाक्षी काकपक्षधरा शुभा । शुभदा शोभना शुद्धा निष्कला परमागतिः ॥ २६ ॥ दीनप्रिया दीनरता (६०) दीनभोजनतत्परा । साधकप्रेमसंपन्ना साधकाभीतिदायिनी ॥ २७ ॥ साधकः सह संविष्टा साधकप्रेमतोषिता । साधकानन्ददात्री च साधकप्रेमगोचरा ॥ २८ ॥ जगद्धात्री जगत्त्रात्री जगतां जयकारिणी (१००)। इति ते कथितं दिव्यमन्नपूर्णाशतं शुभम् ॥ २६ ॥ यः पठेत् प्रातरुत्थाय स भवेत् परमेश्वरः । दरिद्रो लभते देवि सर्वसंपत्तिमेव च ॥ ३० ॥ -