सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५२ बृहन्नीलतन्त्रम् । ततश्च लोहितं देवि स्वराद्येन विभूषितम् । अन्नवर्णं महादेवि मकारैकारसंयुतम् ॥ ७ ॥ नान्नवर्णं महादेवि स्वराद्येन विभूषितम् । ततश्च परमेशानि त्रिपदं सर्वगोपनम् ॥ ८ ॥ मन्त्रं गुप्तं महेशानि वह्निजायावधिस्थितम् । मन्त्रमेतन्महेशानि हठात् सिद्धिप्रदायकम् ॥ ६ ॥ ध्यानपूजादिकं सर्वं कथितं पूर्वकल्पके । शतनाम प्रवक्ष्यामि सर्वसारस्वतप्रदम् ॥ १० ॥ विना येन महादेवीमन्नदां भजते नरः । शतवर्षसहस्रेण तस्य सिद्धिर्न जायते ॥ ११ ॥ तस्मात् सर्वप्रयत्नेन सावधानावधारय । नाम्नां सहस्रं कथितं परमं तव सुन्दरि ॥ १२ ॥ इदानीं शृणु देवेशि अन्नदाशतनामकम् । यस्मात् परतरं नास्ति तत्रमध्ये महेश्वरि ॥ १३ ॥ अन्नदा परमा माया महादेवी शिवप्रिया । भवानी जगतामाद्या प्राणदा प्राणवल्लभा ।। १४ ॥ जगज्जीवमयी (१०) गौरी त्रयी वेदमयी परा । काशीपुरनिवासा च काशीपुरविनाशिनी ॥ १५ ॥ कैलासनिलया काली कल्पज्ञा कल्पदा (२०) शुभा । महादेवप्रपूज्या च महादेवरतातुरा ॥ १६ ॥ पायसान्नप्रिया देवी पीनोन्नतपयोधरा । त्रिवलीवलयोपेता नयनोत्तमसत्तमा ॥ १७ ॥ अन्नपात्रधृतानन्ता (३०) अन्नवेषनतत्परा । गङ्गा गया विशालाक्षी विशालरूपयौवना ॥ १८ ॥ 7